अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 1453, कुल 2600 में से
संदर्भ में पढ़ेंकिंच । नित्यत्वाच्च ताभ्यः श्रुतिभ्यः । अयमात्माऽजरोऽमरः, न जायते म्रियत इत्येवमादिभ्यः ॥ १७ ॥ इति द्वितीयाध्याये तृतीयपादे दशमं नात्माश्रुतेरित्यधिकरणम् ॥ १० ॥ भाष्यप्रकाशः। रणं नोत्पत्तिः नामरूपसंबन्धाभावात्, अन्यथा व्युच्चरणश्रुतावात्मशब्दप्रयोगस्य, बालाग्रश्रुति- व्याकरणश्रुत्योर्जीवशब्दप्रयोगस्य च विरोधापत्तेः । न चास्यापि सृष्ट्यनन्तरभावित्वात् कृत्रिमत्वं शङ्क्यम् । तथा सति सृष्टेः पूर्वं ब्रह्मण एव केवलस्य सत्त्वात् सृष्ट्यनन्तरं प्रयुज्यमानानां शब्दानां सर्वत्र पारिभाषिकत्वापत्त्या रूढ्युच्छेद- प्रसङ्गात्, अतस्तदभावाय 'सर्वाणि रूपाणि विचित्य धीरो नामानि कृत्वाऽभिवदन् यदास्ते' इति श्रुत्युक्तस्य नामरूपनियमस्य साहजिकत्वमास्थेयम् । तथा सति तदतिरिक्तस्यैव कृत्रिम- त्वं, न तु नैसर्गिकस्येति निश्चयः । तदेतदुक्तं नामरूपसंबन्धाभावादिति । न च नामरूपान्तरसंबन्धस्यैवोत्पत्तित्वं, न केवलव्युच्चरणस्येत्यत्र किं गमकमिति शङ्क्यम्, यथो- र्णनाभिस्तन्तुनोच्चरेदित्यव्यवहितपूर्वश्रुतस्य दृष्टान्तस्यैव गमकत्वात्, अन्यथैकेनैव निर्वाहे इतरवैयर्थ्यप्रसङ्गात्, अतस्तन्तूनां नामरूपसंबन्धात् पूर्वो दृष्टान्तः प्राणादीनां भूतान्तानां नाम- रूपसंबन्धवतामुत्पत्तिबोधकः । नच तेषामुत्पत्तिसत्त्वे किं मानमिति वाच्यम् । ऐतरेये 'स ऐक्षत लोकान्नु सृजै' इति प्रश्ने, 'स प्राणमसृजत' इत्यादिसृष्टिश्रुतीनामेव मानत्वात् । नच 'तदात्मानं स्वयमकुरुत' इत्यात्मकरणश्रुतिविरोधः । तत्र यथास्थितप्राकट्यस्यैव करणत्वेन विवक्षितत्वात् । अन्यथा तस्य सुकृतत्वविरोधापत्तेः । नच 'आत्मकृतेः परिणामात्' इति सूत्रे तस्य परिणामत्वस्याङ्गीकारविरोधः शङ्क्यः । तत्र यथास्थितप्राकट्यस्यैव परिणामत्वेन वि- वक्षितत्वात् । अन्यथा विपरिणामादित्येव वदेत्, अतः प्राणादीनामेवोत्पत्तिर्न जीवस्येति निश्चयः । द्वितीयस्तु जीवानामुच्चरणमात्रबोधक इत्याशयेन । नच 'यथोर्णनाभिः सृजते गृह्णते च' इति मुण्डकवाक्यस्वारस्यात् पूर्वो दृष्टान्तः कर्तृत्वमात्रबोधक इति वाच्यम् । एवमपि क्रिया- रश्मिः। नोत्पत्तित्वं ज्ञापितं तत्र शङ्कते स्म न चेति । आत्मेति नाम । रूपं विस्फुलिङ्गवत्तुलं तदन्यनाम- रूपसंबन्धस्यैवेत्यर्थः । अव्यवहितेति बृहदारण्यके ययाग्नेरित्याद्यव्यवहितपूर्वम् । एकेनेति यथोर्णनाभिरित्यनेन । इतरेति ययाग्नेरित्यस्य वैयर्थ्यप्रसङ्गात् । अत इति एकतरस्य वैयर्थ्याभावाय । सार्वविभक्तिकस्तसिरिति । तन्तूनामित्यादि ऊर्णनाभिः कीटविशेषस्तन्तुना तन्तून् क्रीडां क्रीडायै उच्चरेत् । कर्मणः करणसंज्ञा संप्रदानस्य कर्मसंज्ञेत्यनेन कर्मणः करणसंज्ञायां जातायां तृतीया । पशुना रुद्रं यजत इतिवत् । पशुं रुद्राय ददातीत्यर्थः । उच्चरेदुत्सादयेदिति दृष्टान्तश्रुत्यर्थश्चात्र तन्तुः दीर्घीकृति- रूपं तयोः संबन्धाद्धेतोः । द्वितीयो ययाग्नेरिति दृष्टान्तः । उच्चरणेति । तदानीं देहसंबन्धाभावाद्देव- इत्यादि नाम करपादादि रूपं च नास्तीति तन्मात्रबोधकः । तदेतदिति भाष्यं विवरीतुमाहुः न च यथेति । कर्तृत्वमात्रेति मात्रशब्देनोत्पत्तिव्यवच्छेदः । क्रियेति । कृतिमत्त्वं कर्तृत्वमित्यत्र