अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 1454, कुल 2600 में से
संदर्भ में पढ़ें४८ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० २ पा० ३ अ० १० सू० १७ भाष्यप्रकाशः । विषयाणामुत्पत्तिमत्त्वस्य सिद्धेः । नचैवमपि प्राणादिसाम्यानपाय इति शङ्क्यम् । यत एतस्य गुणाः स्वरूपं चाग्रे 'ज्ञोऽत एव'इत्यादिसूत्रेषु वक्ष्यते अतस्तदवगतौ प्राणादिसाम्यसंदेहस्य सुखेन निवृत्तेः । नन्वेवमपि प्रमेयबलेन निवृत्तिर्न तु प्रमाणेन, शास्त्रं तु भवतां प्रमाण- प्रधानमतो नेदं युक्तमत आहुः किंचेत्यादि । इत्येवमादिभ्य इत्यादिपदेन 'नित्यो नित्यानां चेतनश्चेतनानाम्' 'अजो नित्यः शाश्वतोऽयम्' इत्यादीनां संग्रहः । तथाच नात्र प्रमाणा- भाव इत्यर्थः ॥ १७ ॥ इति दशमं नात्माऽश्रुतेरित्यधिकरणम् ॥ १० ॥ रश्मिः । निषिद्धकृतिविषयाणाम् । प्राणादीति । जीवेषु व्युच्चरणेन प्राणादिसाम्यं प्राणादिसदृशं व्युच्चरणम् । व्युच्चरणे जीवस्यैव प्राणादीनामकर्तृत्वात् । तथाचानित्यत्वापत्तिरिति भावः । एतस्येति भाष्यं वि- वृण्वन्ति यत इति । एतस्येति जीवस्य । प्रमेयेति प्रमेयं शाब्दम् । जीवोत्पत्तिश्रुतिरिति शब्दः । तेनोत्पत्तिश्रवणाभावः प्रमेयस्तद्बलेनेत्यर्थः । प्रमाणेनेति श्रुतिशब्दादिना । रामानुजाचार्या एत- दोषभियैव श्रुतेरेवेवं पदं छिन्दन्ति । परंतु-द्वितीयहेतुप्रतिपादकसूत्रांशवैय्यर्थ्यं नानुसंदधते । न जायते। ज्ञोऽज्ञौ द्वावजाविति । जीवोत्पत्तिप्रतिषेधश्रुतेरिति हेतोः सकाशात् । नित्यो नित्यानामि- त्यादिश्रुतिभ्यो नित्यत्वावगमस्य हेतोरमतिरेकात् । भवतामिति वेदव्यासमतवर्तिनां शब्दप्रधानम्। नेदमिति इदमश्रुतेरिति सौत्रं लिङ्गम् । चेतनानामिति 'एको बहूनां यो विदधाति कामान्' इति श्रुतिशेषः । अयमिति । पुराणे 'न हन्यते हन्यमाने शरीरे' इति श्रुतिशेषः । तथा चेति । द्वितीय- हेतुसत्त्वे प्रकारे च । एतावता ब्रह्माण्डप्रकरणं समाप्तं द्वितीयं । ब्रह्माण्डेतिव्याप्तिवारणाय । 'सर्वं खल्विदं ब्रह्म तज्जलानिति शान्त उपासीत' इत्यत्र 'तज्जलान्' इति लिङ्गात् । माध्वास्तु 'स इदं सर्वं विलाप्यन्तस्तमसि निलीनस्तद्विलाप्य व्युत्तिष्ठते स इदं सर्वं विसृजति विक्षिापयति प्रस्थापयति आच्छादयति प्रकाशयति विमोचयति एक एव' इति श्रुतेः परमात्मापि न लीयते इति व्याख्याय सूत्रांशे श्रुतयः 'स एतस्मिन् तमसि निलीनः प्रकृतिं पुरुषं कालं चानुपश्यति नैनं पश्यति कश्चन' इति पैङ्गी- श्रुतिः 'नित्यो नित्यानां चेतनश्चेतनानां, स नित्यो निर्गुणो विभुः परमः परात्मा, नित्यो विभुः कारणो लोकसाक्षी परो गुणैः सर्वदृक् शाश्वतश्च' इत्यादि श्रुतिभ्यो नित्यत्वाच्चेति भाष्ये । 'पूर्वा विराड्- लिङ्गिकाऽपरा परलिङ्गिका' इति श्रुतेरिति पदच्छेदेपि नास्वरसस्तथापि लाघवाल्लाभ्य इत्यनेन चारितार्थ्यं सुवचमिति ज्ञेयम् । श्रुत्यर्थस्तु स महतः स्रष्टा इदं परिदृश्यमानं विलाप्य विशेषे लीनं ब्रह्माण्डे लीनं कृत्वा ब्रह्माण्डान्तर्मध्ये तमस्तस्मिन् निलीनो मार्तण्डरूपो द्वितीयः । तत्तमः विरुद्धं कृत्वा ज्ञात्वा रात्रिरूपं कृत्वेति, व्युत्तिष्ठते 'आविरासीत्तमोमुदः' इति मनुस्मृतेः । विशेषो विष्णोर्द्वितीयं रूपं तेन उत्तिष्ठते । विराड्व्याख्यानमिदमित्याह इदमित्यादि । 'विसर्गः पौरुषः स्मृतः' इति वाक्या- द्विराट्पुरुषसृष्टिरियं विक्षिापयतीति विशेषस्थापनं पुरुषरूपविराट्कृतम् । प्रगतं स्थापनं च तत्कृतम् । 'दग्धगोमयपिण्डवत्' इति वाक्यात्स्मिन्मन्त्रास्थापितामाच्छादयति विराड् दग्धगोमयपिण्डवज्जातो विराड् । सूर्याविष्कारेण विराड् प्रकाशयति । सूर्यः स्वकर्मप्रेरणेन विमोचयत्येक एव । परमात्मा विराडन्तःस्थः स्मृतिप्रसिद्धमञ्जननाम । श्रुत्यन्तरमल्लक्षणविशेष्यार्थम् । परो गुणैरिति महत्स्रष्टु लिङ्गम् । 'तमसः परस्तात्', 'तमसस्तु पारे' इति च श्रुतिभ्यामिति ॥ १७ ॥ इति दशमं नात्माऽश्रुतेरित्यधिकरणम् ॥ १० ॥ 1344