भारतकोश
अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

DevanagariHindipublished2,600 पृष्ठ

पृष्ठ 1457, कुल 2600 में से

संदर्भ में पढ़ें
पृष्ठ 1457

त्यादि । सर्वविप्लववादित्वं तु पाद्मवचनोपन्यासेन, 'नासतोऽदृष्टत्वाद्', इत्यत्र मया प्रदर्शितम्, तादृशो, ब्रह्मवाक्यानि 'विज्ञानमानन्दं ब्रह्म' 'सत्यं ज्ञानमनन्तं ब्रह्म', 'अयमात्मानन्तरो बाह्यः कृत्स्नः प्रज्ञानघनः' इत्यादीन्युदाहृत्य, सूत्रोक्तसिद्धान्तमन्यथाकृत्य 'सुषुप्त्युत्क्रान्त्योर्भेदेन' इत्यादि- सूत्रेषु सिद्धं जीवब्रह्मणोर्भेदरूपं सिद्धान्तं भेदस्य काल्पनिकत्वकथनेन संसारिस्वरूपमात्राख्यानपर- तया व्याख्याय, 'अयं शारीर आत्मा प्राज्ञेनात्मना संपरिष्वक्तः प्राज्ञेनाऽऽत्मनान्वारूढः' इत्यादिश्रुतीनां उक्तसूत्राणां चार्थत्यागेन धाष्टर्यं करोतीत्यर्थः । तद् दूषयन्ति स्म वक्तव्य च । तत्र स्वतन्त्रो हरिः, अन्यदस्वतन्त्रम् । 'सत्यं स्वातन्त्र्यमुद्दिष्टं तच्च कृष्णे न वा परे । अस्वातन्त्र्यात्तदन्ये- षामंशत्वं विद्धि भारत'इति महाभारतेति । एवं