अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 1458, कुल 2600 में से
संदर्भ में पढ़ें५२ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [अ० २ पा० ३ अ० ११ सू० १८ श्रुतिविरोधात् । नचानादिरयं जीवब्रह्मविभागो बुद्धिकृतः । प्रमाणाभावात् । भाष्यप्रकाशः। इत्यादि । द्वितीये स्वरूपनाश इति जीवत्वनिराकरणपक्षे जीवस्वरूपस्याविद्यकत्वान्मु- क्तावविद्यानाशे जीवस्वरूपनाश एव स्यात्, तथाचात्महानमपुरुषार्थ इति मोक्षस्यापुरुषार्थता च स्यात् । ननु वस्तुत आत्मनो ब्रह्मत्वाज्जीवत्वं तस्य कल्पितमतो न तन्नाशे स्वरूपनाश इत्यत आहुः जीवत्वमित्यादि । अत्र हि जीवशब्दोदितस्यात्मनो जीवस्यात्मनेत्युभयोर्वा नामरूप- करणत्वं भाव्यते । तत्र यदि जीवत्वं कल्पितं स्यात् तदा ततः पूर्वं कल्पकः कश्चिद्वक्तव्यः । तन्न न तावद् ब्रह्मणस्तद्धात्वम्, अविद्यासंबन्धराहित्यात् । न तावज्जीवस्य, कल्पनाविषयत्वात् । सृष्ट्यादौ जीवान्तरस्याभावात् । जडस्य तु न तथात्वं, प्रत्यक्षविरोधात् । यदि तु तेजादिदेव- तायाः कल्पकत्वं शङ्क्येत तदा तस्यापि जीवत्वात् तस्य कः कल्पकः । तस्मात् कल्पकनिर्वचना- शक्त्या जीवस्याकल्पितत्वमेवास्थेयम् । अन्यथा, अनेन जीवेनेति, द्वा सुपर्णा इति श्रुत्यन्तरे द्वयोर्देहपरिष्वङ्गभावानुपपत्त्या च श्रुतिविरोधः । नच बहुत्ववज्जीवत्वमपि पाश्चात्यमिति शङ्क्यम् तथा श्रुत्यभावात् । सृष्ट्यादावनेन जीवेनेति सिद्धवन्निर्देशाच्च । अतः सृष्टेः पूर्वमपि भगवदंशत्वजीवत्वरूपोंऽशोऽपि भगवदविभक्तस्तादृशनामादिविशिष्टो नित्य एवास्थेयः । नन्वना- दिजीवब्रह्मविभागो बुद्धिकृत इति तथेत्यत आहुः न चेत्यादि । न ह्यनादित्वे बुद्धिकृतत्वे वा प्रत्यक्षं प्रमाणीभवितुमर्हति, जीवभावस्य कल्पितत्वेन तत्प्रत्यक्षस्य स्वाप्निक- मायिकपुरुषप्रत्यक्षवत्, प्रामाण्यायोगात्, अत एव नानुमानादिरपि, श्रुतयस्तु तत्र विस्फु- रश्मिः। मेवम् । श्रुतिसूत्रेषु कर्मकर्तृव्यपदेशोऽस्ति । ब्रह्मजीवयोरैक्ये तदुल्लङ्घनं भवत्येव । तदाहुरर्थत्या- गेनेति । प्रगल्भत इत्यस्यार्थमाहुः धाष्टर्यमिति । धाष्टर्यं ब्रह्मसंगोपनम् । धूतिरसि ब्रह्म यच्छेति श्रुतेः । मा संगोपय धाष्टर्येनेति भावः । तत्र हेतुं परस्मैपदेनोच्यते । परप्रतारणाय धाष्ट्यं करोती- त्यर्थः । स वक्तव्य इत्यादीति । ब्रह्मवाक्यानि जीवविषये त्वयाऽऽहृतानि जीवचैतन्यस्य नित्य- त्वाय । परस्य हि ब्रह्मणः कादाचित्कं चैतन्यमुपाधिना जीवत्वे भवति नैयायिकमते तद्वारणाव । तत्र ब्रह्मवाक्यानि विस्फुलिङ्गवत्स्थितानां ब्रह्मत्वं प्रतिपाद्यते । यतो नोत्पद्यतेऽतो ज्ञो जीवः ब्रह्म प्रथम- सूत्राद्ब्रह्मेत्यनुवर्तते वा, ब्रह्मवाक्यप्रतिपादितं चैतन्यं नित्यं तच्च व्यावहारिकमित्येवं जीवत्वं निरा- क्रियते इत्यर्थः । अग्रे स्फुटम् । संभवद्विकल्पो भाष्ये । अविद्येति बुद्ध्यादिनाशे । जीवत्व- मित्यादि भाष्यं विवृण्वन्ति स्म नन्विति । तन्नाशे कल्पितनाशे । अनेनेति । व्याख्यायेय- मिदम् । व्याकुर्वन्ति स्म अत्रेति । 'अनेन जीवेनात्मनानुप्रविश्य नामरूपे व्याकरवाणि' इति श्रुतौ तद्वारा प्रवेशद्वारा । तेन तदिति । कल्पितेन जीवेन नामरूपव्याकरणकार्यमिति द्वयम् । नहि रजतेन किंचित्कर्तुं शक्यत इति।\न चेत्यादिभाष्यं विवृण्वन्ति स्म न चेति । बुद्धीति । 'बुद्धेर्गुणे- नात्मगुणेन चैव, आराग्रमात्रो ह्यपरोऽपि दृष्टः' इति श्रुतेः । प्रमाणेति । व्याख्यायेयम् । व्याकुर्वन्ति स्म नहीत्यादिना । प्रमाणीति आराग्रमात्रजीवप्रत्यक्षं अप्रमाणं प्रमाणं भवितुमर्हतीति प्रमाणीभवि- तुमर्हति । कल्पितविषयकत्वाद्बुद्धिविषयकत्वाच्च । प्रत्यक्षस्येति । अहं ब्रह्मास्मीति प्रत्यक्षस्य तत्त्वमसीति शब्दजन्यस्य । प्रामाण्येति । उक्तप्रत्यक्षप्रमात्वायोगात् । भावे ल्युट् । करणेऽपि ल्युट् व्याख्यायेयः पूर्वत्रापि । अत एवेति । प्रत्यक्षभावादेव नानुमानादिः हेतुप्रत्यक्ष एवानुमानोपमानयोः प्रवृत्तिरिति भावः । शब्दोऽपि न मानमित्याहुः श्रुतय इति । अप्ययमिति पदच्छेदः । इदं सादित्वं न कदा- 1348