भारतकोश
अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

DevanagariHindipublished2,600 पृष्ठ

पृष्ठ 1459, कुल 2600 में से

संदर्भ में पढ़ें
पृष्ठ 1459

An accurate line-by-line transcription of the text in Unicode Devanagari:

'सदेव सोम्येदमग्र आसीदेकमेवाद्वितीयम्' इति श्रुतिविरोधश्च। नच जीबातिरिक्तं भाष्यप्रकाशः। लिङ्गवद्भूत्युचरणं ब्रह्मव्यप्ययं चाभिदधत्यो जीवब्रह्मविभागस्य सादित्वमेव बोधयन्ति, नच न कर्माविभागादिति चेन्नानादित्वादिति सूत्रे कर्मानादित्वबोधनेन विभागानादित्वं, पुण्यः पुण्येनेति तद्विषयश्रुत्या बोधितप्रायमेवेति वाच्यम्, श्रुतौ सदसत्कर्मणा सदसद्देहस- म्बन्धमात्रबोधनेन विभागानादित्वस्याबोधनात् सूत्रेऽनादित्वकथनस्य कर्मसापेक्षतया करणेऽपी- श्वरस्यानीश्वरत्वाभावबोधनार्थत्वावसायात् । अन्यथा, 'एष ह्येव साधु कर्म कारयती'त्यादिश्रुति- विरोधस्यापरिहाराद् वैषम्याद्यभावस्य तदनन्यत्वादेव सिद्धेश्च । नच तत्र संसारानादित्व- व्याख्यानं युज्यते, तथा सतीश्वरसानीश्वरत्वं, 'सदेव सोम्येदम