भारतकोश
अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

DevanagariHindipublished2,600 पृष्ठ

पृष्ठ 1461, कुल 2600 में से

संदर्भ में पढ़ें
पृष्ठ 1461

भाष्यप्रकाश-रश्मि-परिवृंहितम् । ५५ उत्क्रान्तिगत्यागतीनाम् ॥ १९ ॥ ( २-३-१२ ) अत एवेति च वर्तते । स यदास्माच्छरीरादुत्क्रामति सहैवैतैः सर्वैरूत्क्रा- मति । ये के चास्माल्लोकात् प्रयान्ति चन्द्रमसमेव ते सर्वे गच्छन्तीति । तस्माल्लोकात् पुनरेत्यस्मै लोकाय कर्मणे । श्रुत्युक्तानामुत्क्रान्तिगत्यागतीनां भाष्यप्रकाशः । प्रसिद्धे शंकराचार्ये माध्यमिकोऽप्याविष्ट इति तथा । एवं च सर्वावस्थासाधारण्येन ज्ञानधर्मा ज्ञानस्वरूपश्च जीव इति सिद्धम् । अत्रापि जीवो वैशेषिकवदङ्गीकार्यः, सांख्यवद् वेति सन्देहः । उभयथा श्रुतिः सन्देहबीजम् । यथाकथञ्चिदस्तु अभ्यर्हितत्वात् सांख्यमतमेवेति पूर्वः पक्षः । सिद्धान्तस्तूक एव । विचारस्तु गुणमुख एव, न तु स्वरूपमुखः । सूत्रे ज्ञशब्द- प्रयोगादिति ॥ १८ ॥ इति एकादशं ज्ञोऽत एव इत्यधिकरणम् ॥ ११ ॥ उत्क्रान्तिगत्यागतीनाम् ॥ १९ ॥ अतः परं जीवस्य शारीरब्राह्मणे, 'स वा एष महानज आत्मा' इति, कौषीतकिब्राह्मणे च, 'योऽयं विज्ञानमयः पुरुषः प्राणेष्वि'ति व्यापक- मध्यमपरिमाणयोः श्रावणात्, श्वेताश्वतरे च, 'आराग्रमात्रो ह्यवरोऽपि दृष्टः' इति, 'बाला- ग्रशतभागस्य शतधा कल्पितस्य च, भागो जीवः स विज्ञेय' इत्यणुत्वश्रावणात्, संदेहे जीवस्य परिमाणं विचार्यते । तत्र सूत्रे एकं षष्ठ्यन्तं पदं, तस्य संबन्धः क्वापि न प्रतीयत इति तं बोधयन्ति अत इत्यादि कर्तव्यमित्यन्तेन । अत्र प्रथमं वाक्यं कौषीतकिब्राह्मणे प्रतर्दना- रश्मिः । विष्टः क्षणिकत्वाच्चेति सूत्रेऽयं निराकृतः । स्वयं त्वीश्वरा रुद्रवत् । तथेति । माध्यमिकस्यैवायम- परावतार इति पाठे तु जगतो मिथ्यात्वाङ्गीकारेण प्रमाणचतुष्टयस्य लोकप्रसिद्धेश्च मिथ्यात्वाङ्गीकरण्यपि संदेहजननान्माध्यमिक एवेति ज्ञेयम् । अङ्गीति १ज्ञानधर्मकं द्रव्यम् । ज्ञानाधिकरणमात्मा इति नैया- यिकप्रवादात् । आगन्तुकचैतन्यः स्वतस्त्वचेतनः । आगन्तुकमात्मनश्चैतन्यमात्ममनःसंयोगजं जाग्रति अग्निघटसंयोगजरोहितादिगुणवदिति प्राप्तम् । नित्यचैतन्ये हि सुप्तमूर्च्छितग्रहाविष्ठानामपि चैतन्यं स्यात्ते पृष्टाः सन्तो न किंचिदयमचेतया महीति जल्पन्ति स्वस्थाश्च चेतयमाना दृश्यन्तेतः कादा- चित्कचैतन्यत्वादागन्तुकचैतन्य आत्मेति वैशेषिका मन्यन्ते । वैशेषिकाः काणभुजाः । सांख्यव- दिति । ज्ञानात्मा । उभयथेति । ज्ञाज्ञौ द्वावजाविति विज्ञानं यज्ञं तनुत इति चोभयथा श्रुतिः । गुणमुख इति । चैतन्यद्वारः । ज्ञः चैतन्यरूप इति भाष्यादेवकारः । स्वरूपेति चेतनमुखः । ज्ञशब्देति । अन्यथा चेतनशब्दप्रयोगः कृतः स्यादिति भावः । इतरधिकरणसमाप्तौ ॥ १८ ॥ इत्येकादशं ज्ञोऽत एवेत्यधिकरणम् ॥ ११ ॥ उत्क्रान्तिगत्यागतीनाम् ॥ १९ ॥ व्यापकत्वेति । योयमित्यत्र प्राणेष्विति सप्तमी व्यापकाधारे । जीव प्राणधारणे । विज्ञानमय इत्येकत्वविवक्षणात् । बालाग्रेति । वेदसम्मतत्वा- द्वालाग्रे सत्त्वेनाग्रेतनोपपत्तेः । यद्वा बालः कृष्णाजिनम् । कृष्णाजिनं ब्रह्मेति बृहत्त्वाडुपपन्नम् । अथ बालोऽश्वबालोन्यापेक्षया स्थूलः भस्मीभूतस्तथा । आत्मत्वात्सर्वे शब्दा वेदे वा । यथा सौभाग्याः सृजन्ति विधुमण्डलमिति तथा । अत इत्यादीति । भाष्येऽनुवर्तत इत्यनुक्त्वा वर्तत इत्युक्त्या व्यास- हृदि वर्तत इत्यर्थः । चकारादात्माप्यन्यथैकपदं सूत्रं न वदेदिति भावः। यद्वा धातूनामनेकार्थत्वं खमते १. चेदिति । 1351