अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 1462, कुल 2600 में से
संदर्भ में पढ़ेंश्रवणाद् यथायोग्यं तस्य परिमाणमङ्गीकर्तव्यम् । यद्यपि, आराग्रमात्रो ह्यपरोऽपि दृष्ट इति श्रुत्यैव परिमाणमुक्तं, तथापि बहुवादिविप्रतिपन्नत्वाद् युक्तिभिः साधयति । ब्रह्मवैलक्षण्यार्थमुत्क्रान्तिपूर्वकत्वमुक्तम् ॥ १९ ॥ भाष्यप्रकाशः। ख्यायिकायाम् । द्वितीयमपि तत्रैव गार्ग्यायनिश्श्वेतकेतुसंवादे । तृतीयं बृहदारण्यके शारीर- ब्राह्मणे । श्रवणादिति जीवे श्रवणात् । तथाच श्रुतित एवोत्क्रान्तिगत्यागतीनां जीवे श्रव- णाद् यथायोग्यं उत्क्रान्त्यादिक्रियायोग्यं जीवस्य परिमाणमङ्गीकर्तव्यमित्यर्थः । सूत्रयोजना तु, जीवात्मा उत्क्रान्तिगत्यागतिसंबन्धी, अत एव, तद्बोधकश्रुतिभ्य एवेति बोध्या । अधिकरणप्रयोजनमाहुः यद्यपीत्यादि । उत्क्रान्तिशब्दः प्रथमतः किमर्थं प्रयुक्त इत्यत आहुः ब्रह्मेत्यादि । 'आसीनो दूरं व्रजति'