अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 1464, कुल 2600 में से
संदर्भ में पढ़ेंखदिरौ छिन्धि इत्यत्र एकक्रियाकरणस्य उभयत्रान्वयादत्र प्रवेशस्योभयत्रान्वयात् । ननु प्रवेशस्य Line 22: उभयत्रान्वय उच्यते न तु लिङ्गस्येतिचेन्न अन्तःशरीरस्थत्वस्य प्रवेशसाध्यत्वेनान्तःशरीरस्थत्वस्यापि Line 23: साध्यतास्यसंबन्धरूपलक्षणया प्राप्तेः । न च प्रविष्टावित्यत्र लक्षणापत्तिरिति वाच्यम् । प्रविष्टेन्तः- Line 24: शरीरस्थपदप्रयोगात् प्रकृतेऽपि लक्षणाभावात् ॥ १९ ॥ Line 25: स्वात्मना चोत्तरयोः ॥ २० ॥ उत्क्रान्तीत्यादिति । इन्द्रियादिभिरिति लिङ्ग- Line 26: शरीरेण, आदिशब्देन विद्याकर्मपूर्वप्रज्ञाः अहंकारश्च, मनोमयकोशेन । 'येनैवारमते कर्म तेनैवामुत्र Line 27: तत्पुमान्, भुङ्क्ते ह्यव्यवधानेन लिङ्गेन मनसा स्वयम्' इति पुरञ्जनोपाख्याने वाक्यान्तरविच्छिन्नोऽप्यस्ती- Line 28: त्यर्थः । उपाधित इति लिङ्गदेहात् । ननु जीवविशिष्टोत्क्रान्त्यादिविवक्षायां जीवविशिष्टो- Line