भारतकोश
अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

DevanagariHindipublished2,600 पृष्ठ

पृष्ठ 1465, कुल 2600 में से

संदर्भ में पढ़ें
पृष्ठ 1465

व्युच्चरन्त्येवमेवास्मादात्मनः सर्वे प्राणाः' इति ब्रह्मलिङ्गकः । शंकरभाष्योक्तायां 'स एतास्तेजोमात्राः समभ्याददानो हृदयमेवान्ववक्रामति । शुक्रमादाय पुनरेति स्थानम्' इति श्रुतौ गत्यागतिप्रतिपा- दिकायां । 'कस्मिन्नु रेतः प्रतिष्ठितं भवतीति हृदय इति' इति श्रुतेर्हृदयाच्छुक्रमादाय तु पुनरेति स्थानमित्यागतिः । अत्र दृष्टान्ताभावाद्ब्रह्मजीवविषयकस्पष्टप्रतिपत्तिर्न स्यादतोन्योदाहृता । तेजोमात्रा इन्द्रियाणि, शुक्लं प्रकाशकमिन्द्रियग्रामम् । स्थानं जागरितं स जीव आगच्छति । अन्ववक्रामति स्वापाद्यौ गच्छति । अत्र भाष्ये । ब्रह्मोपनिषदित्युक्त्या शारीरकब्राह्मणविषयत्वात्पक्षान्तरेण श्रुतित्रय- मुक्तम् । प्रकृते । तृतीयेति श्रुतिः शारीरकब्राह्मणे अर्थस्तु 'सुषुप्त्युत्क्रान्त्योर्भेदेन' इत्यस्य भाष्ये । मुक्तीति । नन्वत्र कर्तृसापेक्षश्रुत्युदाहरणे किं

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित) · पृष्ठ 1465, कुल 2600 में से · BharatKosha