अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 147, कुल 2600 में से
संदर्भ में पढ़ें६० श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० १ पा० १ अ० १ सू० १ किंच । अध्याहारश्च कर्तव्यः । स च कर्तव्यादिपदानाम् । यदि तत् स्वार्थं, व्यर्थमेव वाक्यं स्यात् । परार्थत्वे त्वशक्यं, न हि तैर्विचारः कर्तुं शक्यते । स्मृ- तिवैयर्थ्यं च । असंगतिश्चास्य सूत्रस्य भवेत् । किंचाधिकारपक्षे पुरुषार्थः सिद्ध्यति, नानन्तर्यपक्षे उक्तन्यायात् । किंच, तादृशस्याधिकारिणः श्रवणमात्रेण कृतार्थस्य समाधिनिरतस्य प्रवचनासंभवाच्छास्त्रोच्छेदः शास्त्रविरोधश्च । साधनानामग्रे स्वयमेव वक्तव्य- त्वात् । अतोऽनेकद्रोषदुष्टत्वाद्धिकारार्थ एव श्रेयान् । भाष्यप्रकाशः । संन्यासाङ्गमिति ज्ञायते । श्रुत्यन्तरे च ‘वेदान्तविज्ञानसुनिश्चितार्थाः संन्यासयोगाद् यतयः शुद्धसत्त्वाः’ इति वेदान्तार्थनिश्चयोत्तरं संन्यासस्योक्तत्वात् तदङ्गभूतवैराग्यस्य वेदान्तार्थनिश्चयोत्तरत्वमेवायाति । ततः पूर्वभावित्वं च विचारस्येति तत्तदभावे दृढवैराग्याभावात् संन्यासानुपपत्तिः । तथाचानन्तर्य- पक्षे तन्निरूपकस्य वक्तुमशक्यत्वात् किमनन्तरमित्याकाङ्क्षायाः कथमपि न पूरणमित्यर्थः । द्वितीयं दूषणं विवृण्वन्ति किंचेत्यादि । तदिति विचारकरणम् । तथाच स्वयमेव मनसि विचार्यमिति स्वार्थत्वे शास्त्रानर्थक्यमित्यर्थः । अशक्यमिति अशक्योपदेशरूपम् । तथाच फलाऽभावाद् वैयर्थ्यमित्यर्थः । असंगतिरिति परैः कर्तव्यमितिप्रतिज्ञाया अग्रिमसूत्रीयस्वयंस्कृति- विरुद्धत्वादसंगतिरित्यर्थः । तृतीयं विवृण्वन्ति किंचाधिकारेत्यादि । उक्तन्यायादिति तदसंभवात्तपेरित्यनेनोक्त- न्यायात् । विचारव्यतिरेकेण ब्रह्मणः परमपुरुषार्थत्वज्ञानाद्यभावात् तदभावे चित्तशुद्ध्यभावान्न विचाराभावाद् तथेत्यर्थः । चतुर्थं विवृण्वन्ति किंच, तादृशस्येत्यादि । तादृशस्येति साधनचतुष्टयसंपन्नस्य । साधनानामिति वैराग्यादिसाधनानाम् । अग्रे इति, तृतीयाध्याये । तथाचानन्तर्यनिरूपकतया पूर्वसिद्धानां पुनः कथनानर्हत्वात्, कथनेन च पूर्वं तदभावनिश्चयात् सिद्धत्वस्वीकारे व्याख्येय- शास्त्रविरोध इत्यर्थः । एतेन यन्मध्वैर्जातिकृतं गुणकृतं च ब्रह्मविद्यायामधिकारत्रैविध्यमङ्गीकृत्य तदानन्तर्यमथशब्दार्थो, न त्वध्ययनमात्रानन्तर्यमिति साधनाध्यायानुसारेणाङ्गीक्रियते, तदपि रश्मिः । ‘ब्रह्मचर्यं समाप्य गृही भवेद् गृहाद्वनी भूत्वा प्रव्रजेत्’ इति आश्रमक्रमेण संन्यासः । गृहाद्वेति श्रुतौ तु अनियततत्तदाश्रामानन्तर्यकथनेनाश्रमा न संन्यासाङ्गानि अपि तु आश्रमानियमात् ‘यदहरेव विरजेत् तदहरेव प्रव्रजेत्’ इति श्रुत्यन्तराद् दृढवैराग्यमित्यर्थः । तदङ्गभूतेति । हेतुगर्भं विशेषणमिदं तेन संन्यासाङ्गभूतत्वादित्यर्थः । एवायातीति । यथा भुक्त्वा पयः पिब- तीत्यत्र पयःपानोपयोगिपात्रमपि भोजनोत्तरमेवायाति तद्वदित्यर्थः । तत इति वैराग्यादित्यर्थः । तत्तदभावे इति विचारवेदान्तविज्ञानाभाव इत्यर्थः । द्वितीयमिति । अध्याहारश्चेति भाष्योक्तमित्यर्थः । अशक्येत्यादि । वैराग्याद्यनन्तरं साक्षात्कारादिनिवृत्तये ब्रह्मजिज्ञासा कर्तव्येति तथाविधित्वं न स्यादिति भावः । तथा च सांख्यप्रवचनसूत्रं ‘नाशक्योपदेशविधि- रूपदिष्टेप्यनुपदेशः’ इति । न च मात्र वृद्धिरिति वाच्यम् । साध्यापोष्येतव्य इत्यत्र माहेर- ङ्गीकारेण तवाप्यावश्यकत्वात् । तृतीयमिति । पुरुषार्थश्च सिद्ध्येदिति भाष्योक्तमित्यर्थः । न्यायादिति अन्योन्याश्रयादित्यर्थः । तमेवाहुर्विचारेत्यादि । चित्तशुद्ध्यादीति । आदि- 60