अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 148, कुल 2600 में से
संदर्भ में पढ़ेंन च ज्ञातुमिच्छा जिज्ञासा नाधिकर्तुं शक्येति वाच्यम् । जिज्ञासापदस्य विचारार्थकत्वात् । भाष्यप्रकाशः । प्रत्युक्तम्, विचारब्रह्मविद्ययोरैक्याभावात् । अतो न तदुपन्यस्तश्रुतिस्मृतीनामपि विरोधः । एवमथशब्दार्थं निर्णीय जिज्ञासाशब्दार्थं निश्चेतुमधिकारार्थविरुद्धं मतान्तरीयं तदर्थमनूद्य परिहरन्ति न चेत्यादि । ज्ञातुमिच्छा जिज्ञासेति 'धातोः कर्मणः' इति धातुवाच्यसार्थस्येप्सित- त्वस्मरणाज्ज्ञानप्रधानेयमिच्छा प्रस्तोतुमशक्येत्यर्थः । विचारार्थकत्वादिति जिज्ञासितं सुसंपन्नमपि ते महदद्भुतम्' इति, 'जिज्ञासितमधीतं च यत्तद् ब्रह्म सनातनम्' इति, 'अजिज्ञासितमद्धर्मो गुरुं मुनि- मुपाव्रजेत्' इति, 'जिज्ञासायां संप्रवृत्ते नाद्रियेत् कर्मचोदनाम्' इत्यादिषु जिज्ञासितजिज्ञासापदयोरि- हेच्छावाचकत्वे वाक्यार्थेऽनन्वयेन तत्र विचारार्थकत्वनिश्चयेन तथात्वात् । तथाचैवविधाप्तवाक्य- रश्मिः । पदेन वैराग्यशमदमादिः । चतुर्थमिति । उच्छेदश्च न भवेदिति भाष्योक्तमित्यर्थः । सिद्ध- स्वेत्यादि । आनन्तर्यनिरूपकत्वाङ्गीकारे साधनाध्यायविरोध इत्यर्थः । जातिकृतमित्यादि । ब्राह्मण्यादिजातित्रयकृतं सेवा(वैराग्या)दिगुणत्रयकृतं चेत्यर्थः । अधिकारश्लोको भागवततन्त्रे । 'मन्दमध्योत्तमत्वेन त्रिविधास्त्वधिकारिणः । तत्र मन्दा मनुष्येषु य उत्तमगुणा मताः ॥ मध्यमा ऋषिगन्धर्वा देवास्तत्रोत्तमा मताः । इति जातिकृतो भेदस्थान्यो गुणपूर्वकः ॥ भक्तिमान्परमे विष्णौ यस्त्वध्ययनवाञ्छरः । अधमः शमादिसंयुक्तो मध्यमः स उदाहृतः ॥ आब्रह्मस्तम्बपर्यन्तमसारं चाप्यनित्यकम् । विज्ञाय जातवैराग्यो विष्णुपदैकसंश्रयः ॥ स उत्तमोऽधिकारी स्यात् संन्यस्ताखिलकर्मवान् ॥ इति स्मृतयो माध्वभाष्ये । ऐक्याभावादिति । हेतुहेतुमद्भावेन तथात्वादित्यर्थः । तदुपन्यस्तेति । 'शान्तो दान्त उपरत:' इति 'परीक्ष्य लोकान् कर्मचितान्' इति 'नास्त्यकृतः कृतेन' इति 'यमेव' इति 'यस्य देवे' इति श्रुतयः । स्मृतयस्तूक्ताः । विरोध इति । ब्रह्मविद्यापरत्वादिति भावः, भागवततन्त्रे विचाराभावात् । मतान्तरीयमिति । शंकराचार्यादि- मतीयजिज्ञासापदार्थमनूद्य इत्यर्थः । अथशब्द आनन्तर्यार्थः परिगृह्यते नाधिकारार्थः ब्रह्मजिज्ञा- साया अनधिकार्यत्वादिति । ज्ञातुमिच्छा जिज्ञासा इति च तद्भाष्यम् । अत्र भाष्याशयवर्णकः । जिज्ञासापदं ज्ञानेच्छां वक्ति विचारं लक्षयति वा । नाद्यः । अथशब्दसारम्भार्थत्वे ब्रह्मज्ञानेच्छाया अनारभ्यत्वात्सूत्रार्थासंगतिः । प्रत्यधिकरणविचारकरणेनेच्छाकरणाभावादिति । नापरः । कर्त- व्यपदाध्याहारं विना अन्वयानुपपत्त्यभावेन विचारलक्षकत्वायोगात् । तदध्याहारे तु अथशब्द- वैयर्थ्यम् । तेनैवारम्भोक्तेरिति भाष्याशय इति एतदुभयमालोच्याहुः धातोः कर्मण इति । 'धातोः कर्मणः समानकर्तृकादिच्छायां वा' इति सूत्रम् । 'इषिकर्मणः इषिणैककर्तृकाद्धातोः सन्प्रत्ययो वा स्यादिच्छायाम्' इति वृत्तिः । असंदेहाय पुष्कलवाक्यान्याहुः जिज्ञासितमित्यादि । वाक्यार्थे इत्यादि । नारदकृतव्यासाभिनन्दनरूपे भारतादिकरणरूपस्वाभाविकधर्मेपि विशेष- 61