भारतकोश
अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

DevanagariHindipublished2,600 पृष्ठ

पृष्ठ 149, कुल 2600 में से

संदर्भ में पढ़ें
पृष्ठ 149

अत एव जिज्ञासितुमिच्छेदिति पुराविदां वचनानि । जिज्ञासापदेन चैत- ज्ज्ञापयति ब्रह्मज्ञानं पुरुषार्थसाधनत्वादिष्टम् । तदिच्छापूरणाय विचार आरभ्यत इति । यस्मात् कर्मादिभ्यो ज्ञानमेव पुरुषार्थसाधनमित्यतस्तज्ज्ञानाय विचारोऽधि- क्रियत इति भाष्यप्रकाशः । आहितां रूढिमनादृत्य वृथा यौगिकादरणमप्रयोजकमित्यर्थः । अत्र शाबरभाष्यसंमतिमाहुः अत एवेत्यादि । ननु विचारे प्रारब्धणीये, अथातो ब्रह्मविचार इत्येव कुतो नोक्तमित्याशङ्कायामाहुः जिज्ञासापदेनेत्यादि । भृगुप्रपाठके, 'अधीहि भगवो ब्रह्म' इतिश्रुतेर्ब्रह्मज्ञानेच्छ्योपसन्नाय भृगवे, 'यतो वा इमानि' इति ब्रह्मलक्षणकथनपूर्वकं तद्विजिज्ञासस्वेतिपदेन तदिच्छापूरणाय विचारोपदे- शादिहापि तथैव विचार आरभ्यत इति ज्ञापयतीत्यर्थः । नचात्र तपोऽनुपदेशाच्छ्रुति