अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 1470, कुल 2600 में से
संदर्भ में पढ़ें६४ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० २ पा० ३ अ० १२ सू० २१ नाणुरतच्छ्रुतेरिति चेन्नेतराधिकारात् ॥ २१ ॥ जीवो नाणुर्भवितुमर्हति । कुतः । अतच्छ्रुतेः अणुत्वविपरीतव्या- पकत्वश्रुतेः । 'स वा एष महानज आत्मा योऽयं विज्ञानमयः' इतिचेन्न । भाष्यप्रकाशः। नाणुरतच्छ्रुतेरिति चेन्नेतराधिकारात् ॥ २१ ॥ अत्र भाष्यमतिरोहितार्थम् । विषय- वाक्यं त्वार्थं बृहदारण्यके शारीरकब्राह्मणे तत्र च प्रकरणं ब्रह्मण इति सुषुप्त्युत्क्रान्त्योर्भे- देनेत्यत्र व्युत्पादितमतो ब्रह्माधिकारत्वम् । द्वितीयं कौषीतकिब्राह्मणे समाप्तौ तस्मादेवंवि- च्छान्तो दान्त इत्यादिना आत्मन्येवात्मानं पश्येदित्युपक्रम्य पठितं, तदग्रे च इदं ब्रह्मेदं क्षत्रमित्याद्युक्त्वा, इदं सर्वं यदयमात्मेति पठ्यते अतस्तथेति । तथाचान्यत्र जीवपरोऽपि रश्मिः । नाणुरतच्छ्रुतेरिति चेन्नेतराधिकारात् ॥ २१ ॥ अतिरोहितेति । भाष्ये अतच्छ्रुतेरित्यत्र नञर्थो विरोधो विपरीतशब्देनोच्यते । न तद् अणुत्वम् । अतत् अणुत्वाभावः । अणुत्वविरुद्धं अणुत्वविपरीतं यद्व्यापकत्वं तस्य श्रुतेरित्यर्थः । इतर इति । अत्रेतरदिति युक्तं विशेष्यनिघ्नत्वाद्यद्यपि तथापि-इतराधिकारादित्यत्रेतर आत्मा तस्याधिकारादिति पुल्लिङ्गेन समासोभि- प्रेयते । तस्य च पुंस्त्वात् । स वा एष इत्यस्य बृहदारण्यकस्थत्वेनात्र 'यस्यानुवित्तः प्रतिबुद्ध आत्मेत्यात्मनो विशेष्यत्वेन सूत्रप्रणयनावसरे व्यासस्यात्मन एव हृद्यारूढत्वात् । एतत्सूत्रविषय- वाक्ये । न चेदं जीववाचकमिति शङ्क्यम् । 'अस्मिन्सन्देहे गहने प्रविष्टः स विश्वकृत्स हि सर्वस्य कर्ता' इति ब्रह्मलिङ्गात् रामानुजाचार्याणामपि संमतः । सन्देहे-सम्यग्देहे । गहने दुर्विभाव्ये । अतः पुल्लिङ्ग इतरशब्दः । तर्हि परं ब्रह्मेति वक्तुं शक्यम् । आत्मपदेनैव विशेष्यप्रदर्शनेनौचित्यादिति चेन्न । आत्मपदस्य कोशादौ बुद्धिमनआदिसाधारणादुपपादने तु गौरवम् । अतो जिज्ञासाधि- करणाधिकृतब्रह्मपदत्यागायोगात् परं ब्रह्मेत्येव विशेष्यप्रकरणेनेति । यथा शारीरकब्राह्मणे 'स यत्रायं ५ शारीर आत्मा' इति ब्रह्मप्रकरणे 'नैवमेवायं पुरुष इदं ५ शरीरं निहत्य' इत्यग्रे पुरुषशब्दो ब्रह्मपर इति न तु जीवपर इति प्रतिपादितं सुषुप्त्युत्क्रान्त्योर्भेदेनेत्यत्र । यथा वा सर्वं जानाति देव इत्यत्र देवपदं युष्मदर्थे प्रस्तावप्रकरणात् । एवमत्र विज्ञानमयशब्दो योगेन ब्रह्मपर इति नियम्यते विज्ञानं जीवस्तत्प्रचुरोत्रात्मा विज्ञानमय इति । इत्येवमतिरोहितार्थमित्यर्थः । इतरः परं ब्रह्म तस्याधिकार इत्युक्तं भाष्ये स एव कथमित्यपेक्षायां स्वरूपसिद्धिवारणायाहुः तत्र चेति । व्युत्पादितमिति । प्रथमाध्याय तृतीयपादसमाप्तौ व्युत्पादितम् । 'सर्वस्य वशी सर्वस्येशानः सर्वस्याधिपतिः सर्वमिदं प्रशास्ति' इति श्रुत्युक्तपत्यादिधर्माणां जीवेऽभावाद्ब्रह्मप्रकरणमिति । शांकरास्तु विरजः पर आकाशादिति श्रुतेर्ब्रह्माधिकारमाहुः । रामानुजा यस्यानुवित्त इति श्रुतेराहुः । द्वितीय- मिति । योऽयं विज्ञानमयः प्राणेष्विति । शारीरके तु 'स वा एष महानज आत्माऽजरोऽमरोऽमृतोऽभयः' इति पठ्यते । कथमत्र व्यापकत्वश्रुतिरत आहुः तदग्र इति । अतस्तथेति । सर्वत्र जीववाचकात्म- रूपत्वविधानात्तथा व्यापकत्वेन श्रुतः । कुतोऽत्र प्रकरणं ब्रह्मण इति चेन्न । आत्मन्येवात्मानं पश्येदित्युपक्रमात् । आत्मनि जीवे मनसि वात्मानमीश्वरम् । 'य आत्मनि तिष्ठन्' 'स मानसीन आत्मा जनानाम्' इति श्रुतिभ्याम् । अन्येत्वादि भाष्यं विवृण्वन्ति स्म तथा चेत्यादि । 1360