अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 1471, कुल 2600 में से
संदर्भ में पढ़ेंभाष्यप्रकाश-रश्मि-परिवृंहितम् । ६५ इतराधिकारात् । इतरः परं ब्रह्म तस्याधिकारे 'महानज' इति वाक्यं प्रकरणेन शब्दाश्च नियम्यन्ते । अन्यपरा अपि योगेन ब्रह्मपरा भविष्यन्ति ॥ २१ ॥ स्वशब्द्रोन्मानाभ्यां च ॥ २२ ॥ 'स्वयं विहत्य स्वयं निर्माय स्वेन भासा स्वेन ज्योतिषा प्रस्वपिति' इति स्वशब्दो- ऽणुपरिमाणं जीवं बोधयति । न हि स्वे व्यापकस्य वा शरीरपरिमाणस्य वा विहरणं संभवति । 'बालाग्रशतभागस्य शतधा कल्पितस्य तु । भागो जीवः भाष्यप्रकाशः। विज्ञानमयशब्दोऽत्र विज्ञानप्राचुर्यं बोधयन्ब्रह्मपरः । प्राणेषु स्थितिस्तु ब्रह्मधर्म एव 'यः प्राणेषु तिष्ठन्' इत्यन्तर्यामिब्राह्मणात् । भिक्षुस्तु ना पुरुषो जीव इति यावत्, सोऽणुः । कुतः । उत्क्रान्तिगत्यागतीनां ताभ्यः स्वात्मना विशिष्टयोर्गत्यागत्योस्ताभ्य इत्येवं पूर्वसूत्रापेक्षितसाध्यनिर्देशमत्राङ्गीचकार । तन्न । पक्षबोधकपद्वैयर्थ्यप्रसङ्गात्, ताभ्य इतिवद् आत्मपदस्याप्यनुवृत्तिसौकर्यात् । अतः पूर्वोक्तमेव व्याख्यानं युक्तम् ॥ २१ ॥ स्वशब्द्रोन्मानाभ्यां च ॥ २२ ॥ उद्धृत्य वस्त्वन्तरं पृथक्कृत्य मानमुन्मानम् । भाष्यमत्रापि निगदव्याख्यातम् । स्वशब्दविषयवाक्यं बृहदारण्यके ज्योतिर्ब्राह्मणे । उन्मान- रश्मिः। विषयवाक्ये विज्ञानेति मयटा । ब्रह्मपर इति 'यथाग्नेः क्षुद्रा' इति श्रुत्युक्तं भात्ववाचकः । प्राणेष्विति योयमित्यस्याग्रे तिष्ठतीति क्रियापदाध्याहारात् स्थितिरतु । तिष्ठतेरध्याहारे श्रुति- माहुः य इति । तथा च विज्ञानमयश्रुतिरपि न ब्रह्मप्रकरणबाधिकेति भावः । उत्क्रान्तीति उत्क्रान्त्यादिसंबन्धिनीभ्यस्ताभ्यः श्रुतिभ्यः । एवमग्रेपि । पूर्वसूत्रेति पूर्वसूत्रयोरपेक्षितं यत्साध्यं सोणुरित्यत्र स इति पक्षः । अणुः साध्यं तस्य निर्देशम् । उत्क्रान्तिगत्यागतीनां ताभ्य इति स्वात्मना विशिष्टयोर्गत्यागत्योस्ताभ्य इति च हेतू । सूत्रशेषं तु सर्ववत् । पक्षेति नृपद्वैयर्थ्येत्यर्थः अनुवृत्तीति नात्माश्रुतेरिति सूत्रान्मण्डूकप्लुत्या स्वात्मनेति सूत्राद्वाऽनुवृत्तिसौकर्यात् । न च सूत्रे- ऽदृष्टं पदं सूत्रान्तरादनुवर्तनीयं सर्वत्रेत्युक्त्या दृष्टस्यात्मवाचकनृपदस्य सत्त्वान्नानुवृत्तिरिति शङ्ख्यं 'स्वात्मना चोत्तरयोः' इति स्वशब्दं पश्यन्मगवान्व्यासो नृपदं न वदेदित्यत्र तात्पर्यात् । पूर्वोक्तमिति अणुत्वाभावसाधकं जीवपक्षकं अतच्छुतिहेतुकम् । यन्नैवं तन्नैवं घटादिवदिति व्यतिरेक्यनुमानम् । एवकारस्त्वतच्छ्रुतेरिति प्रसिद्धहेतुविरोधात् ॥ २१ ॥ स्वशब्द्रोन्मानाभ्यां च ॥ २२ ॥ वस्त्वन्तरमिति । श्रौतदृष्टान्तेन तावद्वयविनोऽव- यवमुद्धृत्य वस्त्वन्तरं खर्वाधिकं पृथक्कृत्य । मानं मध्यमपरिमाणं तथा बालात् जीवमुद्धृत्य मानमणुत्वं उन्मानम् । निगदेति स्वशब्देन व्याख्यातम् । ज्योतिर्ब्राह्मण इति । स्वयं निर्मायेति । न च स्वे ईश्वरः कर्तेति जीवकर्तृत्वं कथमिति चेन्न । स समानः सन् जीवतुल्यः सन् क्रीडतीति तथोक्तम् । आत्मनो जीवस्य भगवान्वेव ज्योतिरिति 'सुषुप्त्युत्क्रान्त्योर्भेदेन' इति सूत्रभाष्याच्च । 'अत्रात्मा स्वयं ज्योतिर्भवति' इति श्रुतेः 'स्वेन भासा स्वेन ज्योतिषा' इति । उभयं जीवतुल्यत्वात् । भाष्ये व्यापकस्येति तद्देशमात्रावच्छेदेनेति बोध्यम् । शारीरेति शरीरधर्मत्वेन । परिमाणशब्देति १ ब्र० सू० २० 1361