भारतकोश
अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

DevanagariHindipublished2,600 पृष्ठ

पृष्ठ 1472, कुल 2600 में से

संदर्भ में पढ़ें
पृष्ठ 1472

६६ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० २ पा० ३ अ० १२ सू० २३ स विज्ञेयः' इति 'आराग्रमात्रो ह्यपरोऽपि दृष्टः' इति चोन्मानम् । चकारात् स्वप्नप्रबोधयोः संध्यावागतिदर्शनम् ॥ २२ ॥ अविरोधश्चन्दनवत् ॥ २३ ॥ अणुत्वे सर्वशरीरव्यापि चैतन्यं न घटत इति विरोधो न भवति भाष्यप्रकाशः । वाक्यद्वयं तु श्वेताश्वतरोपनिषदि पञ्चमाध्याये । संध्यावागमनदर्शनमपि ज्योतिर्ब्राह्मणे 'तस्य वा एतस्य पुरुषस्य' इत्युपक्रम्य 'संध्यं तृतीयं स्थानं तस्मिन् संध्ये स्थाने तिष्ठन्नुभे स्थाने पश्यतीदं च परलोकस्थानं च' इति । अत्र जीवस्याणुत्वस्थापनेन श्रुतिगीतोक्ता जीवानां शास्यताऽपि सूचिता । तत्र हि । 'अपरिमिता ध्रुवास्तनुभृतो यदि सर्वगता- स्तर्हि न शास्यतेति नियमो ध्रुव ! नेतरथा । अजनि च यन्मयं तदविमुच्य नियन्तृ भवेत् सममनुजानतां यदमतं मतदुष्टतया' ॥ इति श्लोके 'यदि सर्वगतास्तर्हि न शास्यतेति नियमः' इति तर्ककथनादणुत्वस्य भगवच्छास्यता- घटकत्वबोधनेन 'ध्रुव नेतरथा' इति भगवतोऽणुत्वे जीवस्य व्यापकत्वे चोक्तनियमभङ्गव्युत्पाद- नार्थम् 'अजनि च यन्मयं तदविमुच्य नियन्तृ भवेत्' इति कथनाज्जीवत्त्वं यन्मयमजनि तत् स्वकारणं ब्रह्मस्वरूपमविमुच्य किं नियन्तृ भवेदिति काक्का नियन्तृत्वाभावबोधनेन काक्व- नङ्गीकारपक्षेऽपि कारणमविमुच्य नियन्तृ भवेदिति कारणात्यागेन नियन्तृत्वाङ्गीकारे 'समम- नुजानतां यदमतं मतदुष्टतया' इत्यनेन ब्रह्म सर्वत्र सममैकात्म्यवादेन सर्वत्र सममित्येवं ब्रह्म लक्षीकृत्य जानतां यन्नियन्तृत्वं मतदुष्टतया अमतमसंमतमिति बोधनेन चाणुत्वनियमत्वे दृढीकृते इति साऽपि सूचिता । एतेन ब्रह्मस्वरूपमादायैकात्मवादो जीवस्वरूपमादाय नाना- त्मवाद इति सिद्ध्यति । एतदेव, 'अंशो नानाव्यपदेशात्'इत्यत्र स्फुटीभविष्यति ॥ २२ ॥ अविरोधश्चन्दनवत् ॥ २३ ॥ ननु जीवस्याऽणुत्वे जलावगाहादौ सकलशरीरव्यापि- शैत्याद्युपलब्धिप्रसङ्ग इति शङ्कायामिदं सूत्रमित्याशयेन व्याकुर्वन्ति अणुत्व इत्यादि । तथाचैतद्दृष्टान्तेन एकदेशस्थत्वेऽपि सकलशरीरव्यापिशैत्याद्युपलब्धिः सामर्थ्यन्याय्या घटि- रश्मिः । तथा । उन्मानेति । तत्र बालः केशः । 'कृष्णाजिनं ब्रह्म' इति श्रुतेर्ब्रह्मत्वादग्रभागस्य शास्त्रदृष्ट्या बृहत्त्वादभिवृद्धिः तया शतभागे बालस्तस्य भागस्य शतधाकल्पनम् । अतोऽत्र शतधा कल्पितस्येति भागविशेषणम् । आराग्रं तु तोत्रप्रोतायः शलाका । संधाविति । भाष्ये चकारादित्यादिनोक्तम् । तस्य वा इति प्रकृतस्य वै प्रसिद्धस्य द्वे एव स्थाने भवतः एकमिदं परिदृश्यमानं जन्म जाग्रत्स्था- नम् । द्वितीयं तु परलोकस्थानं सुषुप्त्याख्यं, न तु जन्मान्तररूपं, तयोः संधौ स्वप्नाभावात् । एवं च जाग्रत्सुषुप्त्योः संधौ भवं संध्यं तृतीयं क्षत्रयाणां पूरणं स्वप्नस्थानमित्यर्थः ॥ २२ ॥ अविरोधश्चन्दनवत् ॥ २३ ॥ सकलेत्यादि । उपलब्धिर्ज्ञानं जीवे चैतन्यगुणत्वात् । तदभावोऽपि जीव इति तथा । हृदि जीवे उपलव्ध्यनुपलब्धिप्रसङ्ग इति भावः । यत्तु संयोगस्यावयविनिष्ठत्वादवयविनश्चैकत्वात्कृत्स्नवद्बहिष्ठतामाहुस्तन्न संयोगस्याव्याप्यवृत्तित्वादतस्तेना- विरोधो न सिद्ध्यति तस्माञ्चासौ प्रकारान्तरमन्वेषणीयं तदाहुः सामर्थ्येति । स्वभावस्प- 1362