भारतकोश
अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

DevanagariHindipublished2,600 पृष्ठ

पृष्ठ 1473, कुल 2600 में से

संदर्भ में पढ़ें
पृष्ठ 1473

भाष्यप्रकाश-रश्मि-परिवृंहितम् । ६७ चन्दनवत् । यथा चन्दनमेकदेशस्थितं सर्वदेहसुखं करोति, महातप्ततैलस्थितं वा तापनिवृत्तिम् ॥ २३ ॥ अवस्थितिवैशेष्यादिति चेन्नाभ्युपगमाद्धृदि हि ॥ २४ ॥ चन्दने अवस्थितिवैशेष्यमनुपहतत्वचि सम्यक्तया अवस्थानं तस्मात् । भाष्यप्रकाशः। ष्यत इत्यर्थः । अयं च दृष्टान्तः सामर्थ्येन व्याप्तिं बोधयति । चन्दनावयवानां सूक्ष्मत्वेन सर्वत्र प्रसर्पणाङ्गीकृतौ शरीरे तैले च तत्र तत्र स्थित्वान्यत्र मध्ये मध्ये तापोपलम्भस्य दुर्वा- रत्वात्, उन्मानश्रुतिशेषे वाक्ये 'स चानन्त्याय कल्पते' इति सामर्थ्यस्यैव कॢप् सामर्थ्ये इति धातुना बोधनाच्चेति बोध्यम् । अतो 'ज्वरं हन्ति शिरोबद्धा सहदेवीजटा यथा'इत्यादौ यथा प्रभावाख्येन सामर्थ्येन ज्वरं हन्तीति वैद्यकेऽङ्गीक्रियते तथा चन्दनमपीति हृदयम् ॥ २३ ॥ अवस्थितिवैशेष्यादिति चेन्नाभ्युपगमाद्धृदि हि ॥ २४ ॥ ननु चन्दनदृष्टान्तेन सामर्थ्यव्याप्तिसाधनमयुक्तम् । चन्दन एकदेशस्थायित्वस्य प्रत्यक्षतो निश्चितत्वेन तत्र व्यापन- सामर्थ्यकल्पनायाः सर्वदेहव्यापिशैत्यप्रत्यक्षबलेन युक्तत्वात् । जीवे तु शरीरैकदेशस्थायित्वस्य प्रत्यक्षेणानिश्चयाद् दृष्टान्तवैषम्येण तादृशसामर्थ्यसिद्धयभावादित्याशङ्कायामिदं सूत्रमित्याशयेन रश्मिः। वस्तुसामर्थ्येन व्याप्त्या सामर्थ्यस्य . वा । ननु चन्दनावयवैरेव व्याप्तिरस्तु कृतं सामर्थ्यव्याप्त्येत्यत आहुः अयं चेति । ननु सामर्थ्येन व्याप्तिः सूत्रे गृहीता सा कुतः, पूर्वसूत्रेष्वदर्शनादित्याकाङ्क्षायां हेतुद्वयमाहुः चन्दनेति । तापेति तापोपलम्भप्रसङ्गस्य । अतः सामर्थ्यव्याप्तिः स्वीकार्या तेन च न दृष्टान्तवैषम्यमिति भावः । एवं दृष्टान्तबलेन सामर्थ्यव्याप्तिं ग्राह्यत्वेन साधयित्वा श्रुत्या साधयन्ति स्म उन्मानेति बालाग्रेत्यादि पादत्रयं भाष्य उपन्यस्तं तच्छेषे तच्चतुर्थपादात्मके वाक्ये । बोध्य- मिति तेन स च जीव आनन्त्याय सकलदेहव्याप्त्यै कल्पते सामर्थ्यवान् भवतीति श्रुतेरर्थः । दृष्टान्ते चन्दनपदमुपलक्षणमित्याशयेन दृष्टान्तान्तरमाहुः अत इति । सहदेवीति 'सहदेवी तु सर्पा- क्ष्याम्'इति विश्वः तस्या जटा । प्रभावेति प्रभावः स्वभावः स च परिणामहेतुः 'प्रभावो जलभूम्यो स्याज्जन्मभूमौ पराक्रमे' इति विश्वः । प्रभव इति पाठेत्साविषयः । प्रभावः आख्या यस्य तेन । मणिमन्त्रौषधीनामचिन्त्यप्रभावः । इति हृदयम् सकलदेहव्यापिचैतन्यस्याविरोधः विरोधो न भवति । विरोधप्रतियोगिकाभावोऽस्ति । सामर्थ्यव्याप्तेः चन्दनवदित्यर्थः । यत्र यत्सामर्थ्यं तत्र तत्कार्यदर्शना- विरोध इति व्याप्तिः । घटादौ जलधारणसामर्थ्येऽपि सकलदेहगतशैत्यकार्यदर्शकत्वप्रसङ्ग इत्यतः यत्तदोरुपादानम् । अथवा । अविरोधः फलिष्यति । स च साध्यते । एवं च जीवः सामर्थ्यव्याप्ति- मान्, एकदेशस्थत्वेपि सकलदेहव्यापिचैतन्याद्युपलब्धेः चन्दनवदित्यनुमानेनाविरोध इति सूत्रार्थः । अत्र साध्यतावच्छेदकः संबन्ध आश्रयता हेतुतावच्छेदकस्तु संबन्धः स्वविषयाश्रयता । तेन मनसि आश्रयतया हेतुसत्त्वेऽपि स्वमुपलब्धिस्तद्विषयश्चैतन्यादिस्तदाश्रयो जीवचन्दनादिर्न मन इति न साधारण्यम् । चैतन्यत्वेन शैत्यत्वेनेत्येवं हेतुघटकम् । अन्यथैकतरमादाय गौरश्वत्वादितिवद्दुष्टो हेतुः स्यात् । यथाश्रुतविवक्षणे त्वेकतरमादाय ह्रदो द्रव्यं धूमादितिवत्स्यात् ॥ २३ ॥ अवस्थितिवैशेष्यादिति चेन्नाभ्युपगमाद्धृदि हि ॥ २४ ॥ पूर्वोक्तानुमाने हेतौ विशेषणाभावप्रयुक्तविशिष्टाभावं मत्वा स्वरूपासिद्धिशङ्कां निरस्यतीत्याहुरित्याशयेन भाष्यमवतारयन्ति 1363

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित) · पृष्ठ 1473, कुल 2600 में से · BharatKosha