भारतकोश
अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

DevanagariHindipublished2,600 पृष्ठ

पृष्ठ 1474, कुल 2600 में से

संदर्भ में पढ़ें
पृष्ठ 1474

त्वच एकत्वात् तत्र भवतु नाम, न तु प्रकृते तथा संभवतीति चेन्न । अभ्युप- गमात् । अभ्युपगम्यते जीवस्यापि स्थानविशेषः । हृदि हि । हृदि जीवस्य स्थितिः । गुहां प्रविष्टाविति हि युक्तिः ॥ २४ ॥ भाष्यप्रकाशः। व्याकुर्वन्ति चन्दन इत्यादि। भवतु नामेति कल्प्यमानं सामर्थ्यं भवतु नाम। न संभवतीति प्रत्यक्षेणैकदेशावस्थानसानिश्चयादनुमानेन साधने तु चैतन्योपलम्भरूपस्य कार्यस्य त्वग्व- न्नोमवृद्वा जीवस्वरूपव्याप्त्याऽपि संभवात् तस्य व्यभिचारितया हेतुत्वानुपपत्त्या न संभवति। हृदीति 'कतम आत्मा योऽयं विज्ञानमयः प्राणेषु, हृद्यन्तर्ज्योतिः पुरुषः' 'स वा एष आत्मा हृदि' 'ह्येष आत्मा'इत्यादिश्रुतेरित्यर्थः। युक्तिरिति ब्रह्मभिन्नत्वेन हृदयप्रवेशे युक्तिः। तथाच चन्दनवज्जीवस्याप्येकदेशावस्थितेः शब्दाभिश्रये तस्य त्वगादिवत् स्वरूपव्याप्तेर्वक्तुमशक्यत्वेन रश्मिः। स्म नन्विति । चन्दन इत्यादीति । उपहते केशश्मश्वादित्वचि अवस्थितं चन्दनं न तथेति । अनुपहतत्वं त्वचि विवक्ष्यत इति भावः । किमवस्थितेर्वैशेष्यमित्यपेक्षायां तदाहुः सम्य- गित्यादि। प्रत्यक्षगोचरत्वेनेत्यर्थः । तथा च प्रत्यक्षगोचरत्वं वैशेष्यमिति भावः । न संभव- तीति प्रकृते तथा न संभवतीति प्रतीकमिदं मनःस्थितम् । अनुमानेनेति जीवः व्यतिरे- कवान् स्वाधिकदेशवृत्तिकार्यत्वात्, अणुत्वादिमत्त्वात्, गन्धवत् । जीव एकदेशवृत्तिः कार्यो- पलम्भात्, चन्दनबिन्दुवत् । अत्र कार्योपलम्भत्वेनैकदेशवृत्तित्वेन व्याप्तिः । कार्यं चैतन्यं चैत्यादिं भाक्तं मुख्यं च । तेन दृष्टान्तेनासम्भवः। हेतुतावच्छेदकसंबन्धस्तु स्वविषयाश्रयताख्यः । नैयायि- कानां तु समवायाख्यः । तैरात्मनि ज्ञानोत्पत्तिरङ्गीक्रियते न मनसीति । मनोवृत्तयः कामः संकल्प इत्याद्युक्ताः । न मनोरूपाः । कामः संकल्प इत्युक्त्वा इत्येतत्सर्वं मन एवेति श्रुतौ मनोभेदान्वयेऽपि सप्तम्या लुक्स्वीकारात् । अभेदपक्षोत्र नास्ति । त्वग्वदित्यादि । जीवः स्वरूपेण व्यापी कार्यो- पलम्भात् त्वग्वन्नभोवद्धेत्यनुमानान्तरेण जीवस्य स्वरूपेण व्याप्त्या हेतौ, किंच न तु सामर्थ्येन न वा गुणेनेत्यर्थः । अत्रापि हेतुतावच्छेदकः संबन्धः पूर्वोक्त एव । अपिशब्देनोक्तमेकदेशवृत्तित्व- साध्यककार्योपलम्भहेतुकानुमाने हेतुः साधारणः । साध्यमेकदेशवृत्तित्वं तद्वान् चन्दनबिन्दुस्तदन्य- योस्त्वङ्नभसोः स्वरूपेण देहव्यापिनोः कार्योपलम्भसत्त्वात् । कार्यं स्पर्शः शब्दश्च त्वचि सकलदे- हावच्छेदेन स्वविषयाश्रयतासंबन्धेन कार्योपलम्भात्स्वरूपेण व्यापित्वं दृष्टम् । एवं तत एव हेतो- राकाशस्य देहव्यापित्वमिति । तस्येति चैतन्योपलम्भस्य सामान्यतस्तु ग्रहणे कार्योपलम्भस्य चेत्यर्थः । व्यभिचारितयेति साधारणतया त्वङ्नभसोः साध्याभाववद्वृत्तितया । कतम इति । बृहदारण्यके ज्योतिर्ब्राह्मणे । कतम आत्मैतीति पाठः विज्ञानमयः पुरुषः प्राणेष्विति पाठश्च । अत्रेति । प्रविष्टाविति द्विवचनाद्भेदः 'अनेन जीवेनात्मनानुप्रविश्य' इति वा यथालिखितपाठकस्य पाठकाषमश्लोकेः । भाष्ये युक्तिरिति सौत्रहिशब्दार्थः । यदि भिन्नः सन् प्रविष्टो न स्याद्गुर्वन- स्त्रादिति । अणुत्वबोधकागमानुरोध्यन्यथाज्ञानरूपस्तर्कः । यद्वा श्रुतिः 'ऋतं पिबन्तौ सुकृतस्य लोके गुहां प्रविष्टौ परमे परार्द्धे । छायातपौ ब्रह्मविदो वदन्ति पञ्चाग्नयो ये च त्रिणाचिकेताः' इति कठवल्लयाम् । अर्थस्तु 'गुहां प्रविष्टौ' इत्यधिकरणे स्पष्टः प्रथमाध्याये द्वितीयपादे । छायातपौ सूर्यचन्द्रपृथिवीछायाः । ज्योतिषे सूर्यचन्द्रग्रहयोः पृथिवीछाया गच्छतीत्युक्तं पर्वणि । सूर्यचन्द्रदृष्ट्वारूप- ब्रह्मभिन्नत्वेनेति भाष्यप्रकाराथैः । युक्तिस्त्वैवैव द्विशब्दार्थः । स्वरूपेति जीवस्वरूपेण व्याप्तेः । 1364

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित) · पृष्ठ 1474, कुल 2600 में से · BharatKosha