अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 1486, कुल 2600 में से
संदर्भ में पढ़ें८० श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [अ० २ पा० ३ अ० १३ सू० २९ तद्गुणसारत्वात्तु तद्व्यपदेशः प्राज्ञवत् ॥ २९ ॥ (२-३-१३) ननु तत्त्वमस्यादिवाक्यैः परमेव ब्रह्म जीव इति कथमणुत्वमितीमामाशङ्कां निराकरोति तुशब्दः । तस्य ब्रह्मणो गुणा प्रज्ञाद्रष्टृत्वादयस्त एवात्र जीवे सारा भाष्यप्रकाशः। तद्गुणसारत्वात्तु तद्व्यपदेशः प्राज्ञवत् ॥२९॥ [तुशब्दस्य शङ्कानिरासार्थत्वात् तद्व्या- ख्यानमुखेनैव सूत्रप्रयोजनं वदन्तः सूत्रं व्याकुर्वन्ति नन्वित्यादि । ननु परिमाणविषयिणी विप्रतिपत्तिस्तदा निवर्तते यदि जीवस्य ब्रह्मणः सकाशाद् भेदः संभवति स एव तु नास्ति] ननु सकलशरीरव्यापिचैतन्योपलम्भादन्यत्रानुपलम्भाच्च प्राप्ते जीवस्य मध्यमपरिमाणतयाऽनित्यत्वे तत्परिहाराय पूर्वसूत्रोक्तमणुत्वं वाऽऽदरणीयम्, अथवा, तत्त्वमस्यादिवाक्येषु ब्रह्मत्वेन व्यप- देशाद् ब्रह्मत्या व्यापकत्वं वेति संदेहे नित्यत्वस्य व्यापकत्वेऽपि संभवाद्, ऋष्यन्तरैरपि भोगव्यवस्था व्यापकत्वाङ्गीकारात् सकलशरीरगतचैतन्योपलम्भस्यान्यत्रानुपलम्भस्य च जाति- वदुपपत्तेरुत्क्रान्त्यादीनामुपाधिवशादपि संभवादणुत्वाङ्गीकारे जीवमेवाभिसंधायोक्तानां तत्त्व- मस्यादिवाक्यानामसामञ्जसाच्च व्यापकत्वमेव ज्याय इति । ननु कथमसामञ्जस्यमिति चेन्मैवम् । छान्दोग्ये, 'ऐतदात्म्यमिदं सर्वं, तत् सत्यम्' इति सर्वस्य ब्रह्मात्मकत्वमुक्त्वा अग्रे 'स आत्मा तत्त्वमसि' इति सर्वसाङ्गिकतया त्वंपदार्थस्य जीवस्य तत्पदसामानाधिकरण्यश्रावणेन कौषीतकि- ब्राह्मणसमाप्तौ च इदं सर्वं यदयमात्मेत्यभिधाय, स एष तत्त्वमसीत्यात्मावग्राहः । अहं ब्रह्मा- स्मीत्यहंग्रहाश्रवणेन च तत्त्वमस्यादिवाक्यैः परमेव ब्रह्म जीव इति सिद्ध्यति तस्य च व्यापकत्वं 'सत्यं ज्ञानमनन्तं ब्रह्म' इत्यादिश्रुतिशतैः सिद्धमतः कथमणुत्वमितीमामाशङ्कां परिहरतीत्यर्थः । जीवस्य ब्रह्माभिन्नतया व्यापकत्वस्यैव सिद्धत्वादिति प्राप्तम् । तत्र नित्यत्वस्याणुत्वेऽपि तुल्यत्वा- ज्जीवस्याणुत्वेऽपि ईश्वरेच्छयैव भोगव्यवस्थासंभवे भोगव्यवस्था ऋष्यन्तरैराहतस्य व्यापकत्वस्या- संगतत्वाद् अग्रे, अदृष्टानियमसूत्रे द्रष्टव्याच्च । अत एव जातिवद् व्यापकत्वस्याप्यसंगतत्वाद्, उत्क्रान्त्यादीनामप्युपाधिकत्वस्यापि स्वात्मना चोत्तरयोरित्यनेन निरस्तत्वात् तत्सर्वमुपेक्ष्य, तत्त्वमस्यादिव्यपदेशवाक्यान्येव विचारयन्तोऽवतारयन्ति नन्वित्यादि । तथा च तत्त्वमस्यादि- वाक्यैः जीवस्य ब्रह्मत्वेन व्यापकत्वात् कथमणुत्वमितीमामाशङ्कां परिहरतीत्यर्थः । परिहारं व्याकुर्वन्ति तस्येत्यादि । प्रज्ञाया ब्रह्मधर्मत्वं 'प्रज्ञा च तस्मात् प्रसुता पुराणी' इति श्वेताश्वतरे सिद्धम् । द्रष्टृत्वादीनां गार्गीब्राह्मणे 'तद्वा एतदक्षरं गार्गि अदृष्टं द्रष्टृ अश्रुतं श्रोतृ अमतं मन्तृ अविज्ञातं विज्ञातृ' इत्यादिभिः । त एवात्र जीवे सारा इति तु इन्द्रप्रतर्दनसंवादे रश्मिः। तद्गुणसारत्वात्तु तद्व्यपदेशः प्राज्ञवत् ॥ २९ ॥ ननु परिमाणेति । तथा चेति सूत्रेणुपरिमाणं चेत्युक्तं तत्र मतान्तरेण व्यापकपरिमाणं प्राप्तं ततश्चाणुत्वमहत्त्वपरिमाणविषयक- संदेह इत्यर्थः । छान्दोग्य इति अष्टमप्रपाठके । सामानेति तत् त्वमित्येवं भिन्न- प्रवृत्तिनिमित्तत्वे सत्येकार्थबोधकत्वश्रावणेन । अह्मिति अस्मत्प्रत्ययश्रावणेन । तस्येति परब्रह्मणः । तस्मादिति श्रुत्वात् । अत्र यद्यपि य एको वर्णो बहुधा शक्तियोगात् वर्णाननेका- १. प्रकाशकारैः श्रीहस्तलिखिते पुस्तके भाष्यमधिकं विवृतं स्थलान्तरेपि तथा दृश्यते तच्च [ ] इति चिह्नान्तर्निवेश्य अत्र मुद्रितमस्ति । रश्मिकारैः विशिष्टविवरण प्रतीकानि त्यक्ता व्याख्यातानीति तन्मुद्रणमत्रावश्यकम् । 1376