भारतकोश
अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

DevanagariHindipublished2,600 पृष्ठ

पृष्ठ 1487, कुल 2600 में से

संदर्भ में पढ़ें
पृष्ठ 1487

इति जडवैलक्षण्यकारिण इति अमात्ये राजपदप्रयोगवज्जीवे भगवद्व्यपदेशः । मैत्रेयीति संपूर्णे ब्राह्मणे भगवत्त्वेन जीव उक्तः । ननु कथमन्यस्यान्यधर्मवत्त्वेन कथनम् । न हि निरूपणस्थल एवोपचारः भाष्यप्रकाशः । 'प्रज्ञया वाचं समारुह्य वाचा सर्वाणि नामान्याप्नोति प्रज्ञया प्राणं समारुह्य सर्वान् गन्धानाप्नोति' इत्यादिभिः । प्रश्नोपनिषदि गार्ग्यप्रश्ने 'एष हि द्रष्टा स्प्रष्टा श्रोता घ्राता रसयिता मन्ता बोद्धा कर्ता विज्ञानात्मा पुरुषः स परे अक्षरे आत्मनि संप्रतिष्ठितः' इत्यादिभिश्च । सारं प्रधानत्वं तच्च जड- बैलक्षण्यकारित्वम् । अत्र यद्यपि 'सर्वं खल्विदं ब्रह्म' इत्यादौ जडेपि ब्रह्मपदप्रयोगस्तथापि भगवद्गुणानां तत्र सारत्वं नोच्यते किंतु तज्जलानिति विशेषणेन प्रत्युत कार्यत्वमेव बोध्यते अतो धर्माणामेव जडवैलक्षण्यकारित्वमित