भारतकोश
अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

DevanagariHindipublished2,600 पृष्ठ

पृष्ठ 1489, कुल 2600 में से

संदर्भ में पढ़ें
पृष्ठ 1489

यहाँ प्रस्तुत पृष्ठ का देवनागरी में पंक्ति-दर-पंक्ति लिप्यन्तरण दिया गया है:

भाष्यप्रकाश-रश्मि-परिवृंहितम् । ४३ संभवति तत्राह प्राज्ञवत् । 'तद्यथा प्रियया स्त्रिया संपरिष्वक्तः' इत्यत्र, 'एवमेवाऽयं शारीर आत्मा प्राज्ञेनात्मना संपरिष्वक्तः' इत्यभिधाय प्राज्ञस्वरूप- भाष्यप्रकाशः। तद्यथेत्यादि । इदं हि बृहदारण्यके शारीरकब्राह्मणेऽस्ति । तत्र हि जीवस्य जाग्रत्स्वभावत्वे पूर्व- मुक्तवा, 'अथ यत्र सुप्तो न कंचन कामं कामयते न कंचन स्वप्नं पश्यति' इति सुषुप्तिं वदंस्तत्सामयिकं रश्मिः। ज्ञापनाथं जीवोपक्रमः । न तु प्रकृतिसंसृष्टस्य जीवस्य कारणत्वार्थमिति काशकृत्स्नमतं च गृह्यते । व्यपेति जीवे भगवानिति व्यपदेश उक्तस्तस्य पक्षः । तथेति वाक्यान्त्यादिहेतुभिः। अत्रेति जीवे भगवानिति व्यपदेशः । अत्र तत्पदेन लक्ष्यमाणा गुणाः, गुणाः प्रज्ञादयः, लक्षणाधाराधेयभावसंबन्ध- स्तथाच भगवानित्यस्य प्रज्ञादिरर्थस्तदभिन्नो जीवो 'ज्ञोऽत एव' इति सूत्रात् । ब्रह्मगुणयोरभेद इति न शङ्कनीयम् । गुणानामभेदमित्यतया प्रमेयत्वात् 'मनसैवानुद्रष्टव्यमेतदप्रमेयं ध्रुवम्' इति श्रुत्या धर्मिण इदमित्थतया प्रमेयत्वाभावात् । तथा च पदद्वयलक्षणातो वरमसदृशीकतरत्पदे लक्षणेति भावः । एवं तैर्जीवस्य योगाद्गौणी यथा गौर्वाहीक इत्यत्र गोपदेन लक्ष्यमानास्तदीया जाड्यामान्यादयः तैर्वाही- कस्य योगाद्गोपदे गौणी । वाहीको देशविशेषस्तस्त्यः पुरुषोऽपि वाहीकः । एवं 'तत्त्वमसि' इत्यत्र तत्पदेप्यवगन्तव्य इत्यर्थः । ननु कथमित्यादीति । का गौरितिप्रश्ने सास्नावती गौरिति निरूपणस्थले जाड्यादयो गौरित्युपचारः संभवत्यपि तु न युगपद्वृत्तिद्वयविरोधात् । किंतु कालान्तरे वाहीकपदासम्- भिव्याहारे एवोपचारः संभवति यथा तथा प्रकृतेऽपि न संभवतीति नहीत्यादिभाप्यार्थः । शारीरकेति । इदं संग्रमात् । सर्वग्रन्थटीकाकर्तृत्त्वेनान्यत्रमनस्त्वात् । तथा च लक्षणया ज्योतिर्ब्राह्मण इत्यर्थः । ज्योतिर्ब्राह्मणं शारीरकब्राह्मणाव्यवहितपूर्वब्राह्मणम् । उक्तेति 'याज्ञवल्क्य किं ज्योतिः' इत्यारभ्य 'सोऽस्य परमो लोकः' इत्यन्तेन ग्रन्थेनोक्ता । इदं तु ज्ञेयम् । 'जनको वैदेहं याज्ञवल्क्यो जगाम स मेने न वदिष्य इत्यथ ह यज्जनकश्च वैदेहो याज्ञवल्क्यो वरं ददौ स ह कामप्रश्नमेव वव्रे । तं हास्मै ददौ तं ह सम्राडेव पूर्वः पप्रच्छ' इत्यत्र जगाम दिनान्तरे जगाम । एतद्ब्राह्मणात्पूर्वं जनकयाज्ञवल्क्य- समागमनिरूपणात् न वदिष्ये योगक्षेमार्थमागंतोऽस्मीति न वदिष्ये । तदनु अग्निहोत्रे तन्निमित्त- मग्निहोत्रविषयकमिति यावत् । संवदतः संवादं कृतवन्तौ ततो याज्ञवल्क्यो राज्ञो विज्ञानं समीचीन- मुपलभ्य तुष्टस्तस्मै राज्ञे वरं ददौ वरं वरयेत्युक्तवान् । स च राजा कामप्रश्नमिच्छाप्रश्नं वव्रे । प्रश्ने क्रोधाभावाय तमिच्छाप्रश्नमस्मै राज्ञे ददौ । तदीयं कृतवान् तदनु तं याज्ञवल्क्यं पूर्वः प्रश्ने पूर्वः पप्रच्छ 'याज्ञवल्क्य किं ज्योतिरयं पुरुष इति' इति । अत्र किं ज्योतिरस्य पुरुषस्य परिदृश्यमानस्यान्नमय- स्येति प्रश्न औदर्यविषयको भवितुमर्हति । न तु पूर्वोक्तात्मविषयोऽन्येभ्योऽस्यातः । तस्य ब्राह्मांशत्वे- न 'आदित्यज्योतिः सम्राडिति होवाच' इत्युत्तरविरोधात् । शारीरकब्राह्मणे जीवस्य वक्तव्यत्वाच्च 'अस्त- मित आदित्ये याज्ञवल्क्य चन्द्रमस्यस्तमिते शान्तायां वाचि किं ज्योतिरेवायं पुरुष इति' इति प्रश्ने आत्म- ज्योतिः सम्राडिति होवाचेत्युत्तरे तस्य जीवज्योतिष्ट्वकथनाच्च आत्मनैवायं ज्योतिषाऽऽस्ते पल्ययते कर्म कुरुते विपर्येती' इति अग्रे श्रुतिस्तत्र कर्तृकरणत्वव्यपदेशाच्च । आस्त उदरे उपविशति । पल्ययते पर्ययते तदीयस्वरूपसंपर्कमूर्ध्वगमनं कुरुते कर्म कुरुते चतुर्विधान्नपाचनं कुरुते विपर्येति विपरीत- भावं प्राप्नोति कदाचिदन्नपाचनं न करोतीत्यर्थः । एवमुक्ते संदिहानो जनकः पप्रच्छ कतम आत्मेति' इति हार्दोदर्ययोः कतम आत्मा जीव इत्यर्थः । 'तयोरेकतरो व्यर्थः प्रकृतिः सोम्यात्मिका ज्ञानं त्वन्वतमो- 1379