अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 1490, कुल 2600 में से
संदर्भ में पढ़ेंमाह 'तद् वा अस्यैतदतिच्छन्दोऽपहतपाप्माऽभयँरूपमशोकान्तरमत्र पिता अपिता भवति' इत्यादि । प्राज्ञश्च सुषुप्तिसाक्षी । न हि तस्यापहतपाप्मत्वमस्ति । ब्रह्मलिङ्गात् । भाष्यप्रकाशः । जीवस्वरूपं निरूप्य, 'तद्यथा प्रियया स्त्रिया संपरिष्वक्तो न बाह्यं किंचन वेद नान्तरम्' इति जीवब्रह्मणोर्भेददृष्टान्तनिरूपणावसरे, एवमेवायँशारीर आत्मा प्राज्ञेनात्मना संपरिष्वक्त इति जीवप्राज्ञयोर्भेदमभिधाय, कः प्राज्ञ आत्मेत्याकाङ्क्षायां प्राज्ञस्वरूपमाह, तद्वा अस्यैतदतिच्छन्दो- ऽपहतपाप्मेत्यादिना । अत्रास्य रूपमित्यनेन परमेश्वरस्य रूपान्तरमित्युच्यते, न तु परमपुरुष एवेति । नचापहतपाप्मत्वरूपाद् ब्रह्मलिङ्गाद् ब्रह्मैवेति शङ्क्यम् । प्राज्ञश्च सुषुप्तिसाक्षी । न हि तस्य स्वतोऽपहतपाप्मत्वमस्ति । अप