भारतकोश
अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

DevanagariHindipublished2,600 पृष्ठ

पृष्ठ 1498, कुल 2600 में से

संदर्भ में पढ़ें
पृष्ठ 1498

Here is the complete and accurate transcription of the image into pure Devanagari text, formatted line-by-line with line markers:

९२ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० २ पा० ३ अ० १३ सू० २९ भाष्यप्रकाशः। गौणी । सापि राजज्येष्ठपुत्रवदिति नासदर्थवादत्वापादिका । पूर्वकल्पोक्ताश्च न दोषाः केऽपि । एवं सति कः पक्षोऽत्र ज्यायान् को वा कनीयान् । नेतरोऽनुपपत्तेरित्यारभ्य जीवब्रह्मणोर्भेदं बोधयतोऽणुत्वमंशत्वादिकं च जीवस्य साधयतः सूत्रकृतश्च किं वाभिप्रेतमित्यादिकं विभाव- नीयम् । किंच । तद्गुणसारसूत्रे प्राथमिकतत्पदेन य उपाधिः परामृश्यते, स किमन्यथानुपपत्ति- बलादध्याहृत उत क्वचित् पूर्वमुक्तः । नाद्यः । अनुपपत्तेरभावस्योपपादितत्वात् । नेतरः । अदर्श- नात् । नच 'अन्तरा विज्ञानमनसी' इत्यत्रोक्तं विज्ञानं बुद्धितत्त्वात्मकं दृश्यत एवेति वाच्यम् । विज्ञानपदस्यानेकार्थत्वेनात्र बुद्धेरेव ग्रहणे नियामकाभावात् । व्याख्यात्रा विज्ञानमनसी इति द्विवचनोपपत्त्यर्थं विज्ञानपदे करणव्युत्पत्त्यङ्गीकारेण बुद्धीन्द्रिययोः संग्रहात् । कस्य वोपाधित्वं कथं वा इन्द्रियाण्यपाकृत्य बुद्धेरेव ग्रहणमित्यत्र हेत्वनुपलम्भाच्च । एतेन भास्कराचार्यव्याख्यान- मपि दत्तोत्तरम् । ब्रह्मपरामर्शे तु कोऽप्ययं दोषो न भवति । नाणुरतच्छ्रुतेरिति सूत्रे इतरपदेन ब्रह्मण एवोक्तत्वेन तस्य च सन्निहितत्वेन कल्पनालेशस्याप्यभावादिति । यत्तु भिक्षुः—अणुत्वसाधकानि नव सूत्राणि पूर्वपक्षीकृत्य, पृथगुपदेशादिति सूत्रं सिद्धा- न्तत्वेनाह । तदर्थं च जीवावणुरूपोपाधिभूतः पृथक् । कुतः । उपदेशात् । 'स चानन्त्याय कल्पते' 'स वा एष महानज आत्मा', 'योऽयं विज्ञानमयः प्राणेषु' इत्यादिश्रुतिभिर्जीवस्याणुत्वोपदेशा- दित्याह । तन्न । अन्त्ययोर्ब्रह्मप्रकरणस्थत्वस्य प्रागेव दर्शितत्वेन जीवाविषयत्वात् । आद्याया अपि सामर्थ्यबोधकत्वस्योपपादितत्वेन इतः पूर्वस्मिन्नङ्गुष्ठमात्र इति श्लोके बुद्धेर्गुणेनाङ्गुष्ठमात्रत्व- रश्मिः। सापीति । सापि गौण्यपि यावदात्मा ब्रह्म भवत्यानन्दांशप्राकट्येन तावदेव यथा राजज्येष्ठपुत्रे राजपदगौणी तावदेव यावद्राज्ञि वैराग्यं तदभावे तु नेति । नासदिति । यथा यजमानः प्रस्तर इत्यत्र गुणवादे प्रस्तरो यज्ञः 'यो यच्छब्दः स एव सः' इति यजमानाभेदः इत्येवमर्थवादपादे विवेचितमन्यत् । उत्तरकल्पनद्वयमपि न । सदर्थवादात् । हृदयायतनत्वमपि बुद्धेर्न, मध्यमपरिमाणस्यायुक्तत्वादणुरेव जीव इति भाष्यात् । स्वशास्त्रविप्लवोऽपि न । मिथ्यात्वाभावात् । पूर्वेति । उत्पत्त्यश्रवणादयश्च न दोषाः । पूर्वसमर्थनात् । नेतर इति आनन्दमयाधिकरणे सूत्रम् । भेदमिति । 'एकोऽहं बहु स्यां प्रजायेय' इत्यैच्छिकं भेदम् । अणुत्वमिति 'नाणुरतच्छ्रुतेः' इत्यादिसूत्रेण । अंशत्वमिति 'अंशो नानाव्यपदेशात्' इति सूत्रेण साधयतः । आदिशब्देन कर्तृत्वम् । इत्यादिकमिति आदिशब्देन जीवे सेवानिषेधः सुबोधिन्यां श्रुतिगीते यत्तत्संगृह्यते । वेदान्तानां जीवपरत्वे तत्रोक्तः सेवाभावो विरुध्यते । विभावनीयमिति 'सर्वे वेदा यत्पदमामनन्ति' 'वेदैश्च सर्वैरहमेव वेद्यः' इति च वाक्याभ्यां ब्रह्मपरत्वमनुसंधेयमिति हृदयम् । अन्तरेति इदं सूत्रं गतम् । 'विज्ञानमनसी' इत्यत्रेति पाठः 'ईदूदेद्द्विवचनम्' इति सूत्रात् । बुद्धीति उपाधिरूपम् । व्याख्यात्रेति गोविन्दानन्दभगवता रत्नप्रभाभाष्यटीकाकृता । एतेनेति उपाध्यर्थदूषणेन । भास्करेति उपाधिम्प्रख्यानं प्रथमत्तत्पदस्य । तदर्थमिति । पूर्वसूत्रार्थस्तु यथाभाष्यम् । प्रागिति 'नाणुरत- च्छुतेः' इत्यादिसूत्रे । सामर्थ्येति । 'कृपू सामर्थ्ये' इति धातुपाठात् । मुक्तावित्युपलक्षणमस्या- र्थस्येत्यपि द्रष्टव्यम् । अङ्गुष्ठेति । 'अङ्गुष्ठमात्रो रवितुल्यरूपः कामाहंकारसमन्वितोऽपि । बुद्धेर्गुणेनात्मगुणेन चैव आराग्रमात्रो ह्यपरोऽपि दृष्टः' इति श्लोके । 1388