अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 1502, कुल 2600 में से
संदर्भ में पढ़ें९६ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० २ पा० ३ अ० ११ सू० ३० यावदात्मभावित्वाच्च न दोषस्तद्दर्शनात् ॥ ३० ॥ ननु कथमन्यस्य नीचस्य सर्वोत्कृष्टव्यपदेशोऽपि । न हि प्रामाणिकैः सर्वथा अयुक्ते व्यपदेशः क्रियते । नचोक्ततद्गुणसारत्वाद् ब्रह्मण आनन्दांशस्य प्राक- ट्यादिति वाच्यम् । तथा सति प्राज्ञवत् पुनस्तिरोहितं स्यादिति तस्य तद्व्यपदेशो व्यर्थोऽयुक्तश्चेति चेत् नायं दोषः । कुतः यावदात्मभावित्वात् । पश्चाद् यावत्पर्यन्तमात्मा । नित्यत्वात् । सर्वदा आनन्दांशस्य प्राकट्यात् तस्य तथैव दर्शनमस्ति । अनावृतैश्वर्यादीनामुक्तत्वात् । प्राज्ञात् संपत्त्वं विशेषः । भाष्यप्रकाशः। व्याख्याने सोऽकामयतेत्यादिश्रुतितयोपन्यासोऽप्यसंगतः । तासां ब्रह्मप्रकरणत्वात् । प्राज्ञस्य परमेश्वराद्भिन्नतायाः सूत्रव्याख्यान एव दर्शितत्वादिति । सांख्यसूत्रेण गतिश्रुतेरुपाधिप्रयुक्त- त्वकथनं तु व्यासविरोधमेव बोधयति । श्रौतसंदेहनिराकरणाय प्रवृत्तः कथमेवं सूत्रं न प्रणी- तवानतः किमधिकं ब्रूम इति दिक् । रामानुज माध्वाः शैवाश्चाणुजीववादिनः । परं तु प्राज्ञब्रह्मणोर्भेदं न केऽपि विचारित- वन्त इति दृष्टान्तव्याख्यानं सर्वेषामेवानादेयम् ॥ २९ ॥ यावदात्मभावित्वाच्च न दोषस्तद्दर्शनात् ॥ ३० ॥ व्यपदेशविषय एव कंचिद्दोष- माशङ्क्य परिहरतीत्याशयेन तं दोषं प्रकाशयन्ति नन्वित्यादि । अन्यस्येति ब्रह्मभिन्नस्य । सर्वोत्कृष्टव्यपदेश इति उत्कृष्टत्वेन व्यपदेशः । तिरोहितं स्यादिति ब्रह्मगुणसारत्वं तिरोहितं स्यात् । सूत्रोक्तं परिहारं व्याकुर्वन्ति नायमित्यादि । हेतुं व्याकुर्वन्ति पश्चाद्वि- त्यादि । पश्चादिति संसारदशोत्तरम् । आनन्दांशस्य प्राकट्यादिति जीवो हि भगवदंश इति तस्य यावानानन्दांशस्तत्प्राकट्यात् । तस्येति जीवस्य । तथैव दर्शनमिति ब्रह्मभावपूर्ण- रश्मिः। निबन्धोक्तेरीश्वरसार्वज्ञत्वादूषयन्ति स्म सांख्येति । व्यासेति 'अविरोधश्चन्दनवत्' इति व्यास- सूत्रविरोधम् । एवं सूत्रमिति । असङ्गः पुरुष इतिवद् औपाधिका जीवा इत्येवं सूत्रम् । दि- गिति । सांख्ययोगौ भक्त्या प्रसङ्गे हरौ प्रवर्तेते न तु वेदान्तसमकाले इत्यन्यदेतत् । भेदमिति दार्ष्टान्तिकोपयोगिभेदम् ॥ २९ ॥ यावदात्मभावित्वाच्च न दोषस्तद्दर्शनात् ॥ ३० ॥ ब्रह्मभिन्नेति । भाष्ये नीचस्येति 'पराभिध्यानात्तु तिरोहितं ततो ह्यस्य बन्धविपर्ययौ' इति सूत्रोक्तस्येत्यर्थः । प्रज्ञाद्रष्टृत्वा- दय इत्यादिशब्दार्थं मनसि कृत्वा शङ्कते न चेति । उक्तमिति सर्वथाऽयुक्तत्वाभावनम् । आनन्दांशस्येति । प्रज्ञाद्रष्टृत्वादय इत्यादिशब्दार्थोऽयम् । उत्कृष्टत्वेनेति । भावप्रधानो निर्देश इत्याशयेनेदं बोध्यम् । ब्रह्मत्वेनेति खल्वेति ज्ञेयम् । स खल्विति छान्दोग्यसमाप्ता- वियम् । एवमिति धर्मांश्चविदधदेवेत्येवम् । पार्षदेति । आदिशब्देन भगवत्सेवोपयोगिदेहो वैकुण्ठादिष्विति फलस्य ग्रहणम् । उक्तत्वादिति । कर्तुमकर्तुमन्यथाकर्तु समर्थ ईश्वर इतीश्वर-