अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 1503, कुल 2600 में से
संदर्भ में पढ़ेंचकारात् तस्य चानन्दः प्रकटित इति न दूषणगन्धोऽपि । व्यपदेशो वा नात्यन्तमयुक्तस्य । यावदात्मा ब्रह्म भवत्यानन्दांशप्राकट्येन तावदेव तद्व्यपदेशः राजज्येष्ठपुत्रवत् । एतदेवोक्तम् । भाष्यप्रकाशः । कादाचित्कत्वेन दर्शनमस्ति । तत्र हेतुः । अनावृतेत्यादि । तथाच छान्दोग्ये, स तत्र पर्येतीत्यादि- नाऽनावृतैश्वर्यादीनामुक्तत्वात् तद्गुणसारत्वकृतो ब्रह्मव्यपदेशो नायुक्त इत्यर्थः । तथाचायं सूत्रार्थः । यावदिति पदार्थानतिवृत्तौ । भावित्वं वर्तनशीलत्वम् । तथाचात्मानमनतिक्रम्या- नन्दांशस्य वर्तनशीलत्वान्न दोषः न तिरोधानम् । 'ब्रह्म वेद ब्रह्मैव भवति' इति, 'तस्य तावदेव चिरम्' इत्यादिश्रुतौ तथा दर्शनादिति सूत्रार्थो बोध्यः । नन्विदमप्रयोजकम् । 'प्राज्ञ ईश्वरस्तृतीयः पाद एष सर्वेश्वर एषोऽन्तर्याम्येष