भारतकोश
अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

DevanagariHindipublished2,600 पृष्ठ

पृष्ठ 1508, कुल 2600 में से

संदर्भ में पढ़ें
पृष्ठ 1508

एतेन संसारदशायां ब्रह्मत्वव्यपदेशो गौण्या, मुक्तिदशायां तु मुख्यवृत्तः । व्यापकत्वं विरुद्धधर्माश्रयत्वं चानन्दांशप्राकट्यादिति साधितम् । माध्वा अप्यर्थजरतीयेनैवाहुः । शंकराचार्यभास्कराचार्यभिक्षवस्तु एतत् सूत्रमन्तःकरणसद्भावार्थमित्याहुः । यदि ह्यन्तःकरणं न स्यात् तदा ह्यात्मनो व्यापकत्वादिनिन्द्रियविषयरूपाणामुपलब्धिसाधनानां समवधानं तस्य सार्वदिकमिति नित्यमुपलब्धिः प्रसज्येत, अथ सत्यपि साधनसमवधाने फला- भावस्ततो नित्यमेवानुपलब्धिः प्रसज्येत, अथात्मनो वेन्द्रियस्य वा विषयस्य वा उपलब्धिजनक- शक्तिप्रतिबन्धोऽङ्गीकार्यः । तदपि न । आत्मनोऽविक्रियत्वेन शक्तिप्रतिबन्धासंभवात् । नापीन्द्रियस्य, पूर्वोत्तरक्षणयोरप्रतिबद्धशक्तिकस्याकस्माच्छक्तिप्रतिबन्धकल्पने प्रमाणाभावात् । अन्यथाऽनुपपत्त्या कल्पनेऽपि प्रतिबन्धककल्पनापेक्षया करणकल्पनाया लघीयस्त्वात् । अतो यत्