अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 1509, कुल 2600 में से
संदर्भ में पढ़ेंपूर्वोक्त एव प्रकारः स्वीकार्य इति सिद्धम् ॥ ३२ ॥ इति द्वितीयाध्याये तृतीयपादे तद्गुणसारत्वादिति त्रयोदशमधिकरणम् ॥ १३ ॥ भाष्यप्रकाशः। समानत्वात्, अतो विभुत्ववादिनां दूषणायेदं सूत्रमित्याहुः । एवमेव शैवोऽपि । यत्तु भास्कराचार्यैरुक्तं, सर्वगतत्वेऽपि भोगस्य कर्मनिमित्तत्वाच्छरीरदेशे भोगोत्पत्तेर्न सर्वगतत्वव्याहृतिरिति । तदप्यदृष्टानियमेनैव दूषितत्वान्न युक्तिसहम् । इदं सर्वं मया जीवाणु- वादे सम्यक् प्रपञ्चितमतो नात्रोच्यते । न चैवं सति मनःसिद्धयभावः । उक्तश्रुत्या तद्वृत्ति- प्रत्यक्षेण च सिद्धत्वादिति ॥ ३२ ॥ इति त्रयोदशं तद्गुणसारत्वादित्यधिकरणम् ॥ १३ ॥ रश्मिः। विद्याकर्मपूर्वप्रज्ञाजन्यत्वेन कर्मत्वांशमादाय भोगोपपत्तेरित्यर्थः । अदृष्टेति धर्माधर्मनियमेति । प्रपञ्चितमिति । प्रपञ्चस्तु । किंचादृष्टविशेषा.....दृष्टस्य कर्मनियम्यत्वेन कर्मणश्च कर्मविशेषप्रयत्नजन्य- म्यत्वेन प्रयत्नस्य चात्मनः संयोगनियम्यत्वेन संयोगस्य च सर्वेषामात्मनां सर्वेषु मनस्सु सत्त्वास्यैव प्रणाड्या सर्वेष्वेव प्रयत्नजधर्माधर्मरूपाणां सर्वाष्टानां सुवचत्वात् । न च देहाद्यवच्छिन्नविलक्षणमनः- संयोगादिना दोषः परिहर्तुं शक्यः कारणमन्तरेण देहावच्छेदमात्रेण मनःसंयोगवैलक्षण्यस्याशक्य- वचनत्वात् । अथ कार्येकोन्नेयं तद्वैलक्षण्यमिति चेदस्तु तथापि नास्तिकमिति कारणं तु वाच्यमेव । तत्रान्यस्य वक्तुमशक्यत्वादीश्वरे नैव चैद्वैलक्षण्यहेतुत्वेनाद्रियते । तदेष एव भुङ्क्तां नान्ये । अस्य कर्मणाऽसावहमुत्पद्यतां नान्यस्येत्येवमीश्वरेच्छयैव व्यापकात्मनां भोगनियमवद्देशान्तरख्योऽयमेन प्रकारेण भुक्तामित्येवमणुवामवादेऽपि भोगनिर्वाहसिद्धौ देशान्तरेऽदृष्टवदात्मसंयोगाङ्गीकारेण व्यापकत्व- साधनं जघन्यमेव । यत्तु आत्मशरीरसंयोगसाध्यास्याभिन्नस्य ज्ञाने कारणतैव नास्ति । प्रयोजनविर- हेण तस्यास्तत्रानङ्गीकारात् । विदेहमुक्तात्मविज्ञानाद्युदयवारणाय ज्ञानादिकं प्रत्यवच्छेदकतया शरीरस्यैव हेतुत्वावधारणाच्च । अतः परशरीरे कारणाभावादेव भोगाभाव इति न तत्र तदापादन- मुचितमित्युक्तम् । तदपि फल्गु । ज्ञानादिकं प्रति शरीरस्य शरीरत्वे शरीरत्वेन हेतुत्वे त्वद्रीत्यापि कार- णात्मत्वस्य वक्तुमशक्यत्वात् । आत्मनां विभुत्वस्यासिद्धत्वे तत्तच्छरीरत्वेन कारणताया अप्रामाणिक- गौरवग्रस्तत्वाच्च । अतः कारणतानङ्गीकारेण भोगनियमसमाधानं मज्जतः फेनावलम्बनमेवेति दिगिति । सम्यक्त्वं चावारपारीणत्वम् । असंदिग्धान्तःकरणसत्ता न सूत्रविषयो संदिग्धश्रुतिविदि- त्याहुः उक्तेति । तद्वृत्तीति । मनोवृत्तीनां कामसङ्कल्पादीनां प्रत्यक्षेण मनसः सिद्धत्वात् इतिरधिक- रणसमाप्तौ ॥ ३२ ॥ इति तद्गुणसारत्वादित्यधिकरणम् ॥ १३ ॥ १. यावदात्मा मानलीनत्वात्तन्मयलवाद् अन्यथा मनोविनाप्यन्यत्रापि व्यापकात्मा प्रयत्नी स्यात् । तथाचेति सिद्धा- न्तित इत्येकेष ।