अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 1510, कुल 2600 में से
संदर्भ में पढ़ें१०४ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० २ पा० ३ अ० १४ सू० ३३ कर्ता शास्त्रार्थवत्त्वात् ॥ ३३ ॥ (२-३-१४) सांख्यानां प्रकृतिगतमेव कर्तृत्वमिति तन्निवारणार्थमधिकरणारम्भः । कर्ता जीव एव । कुतः शास्त्रार्थवत्त्वात् । भाष्यप्रकाशः। कर्ता शास्त्रार्थवत्त्वात् ॥ ३३ ॥ अधिकरणप्रयोजनमाहुः सांख्यानामित्यादि । तथा च पूर्व ज्ञानस्वरूपत्वे ज्ञानगुणकत्वे च सिद्धान्तिते सांख्यवदकर्तृत्वं नैयायिकवत् कर्तृत्वं च संभाव्यते, अतः संशयः । तत्र कठवल्ल्याम् । 'हन्ता चेन्मन्यते हन्तुं हतश्चेन्मन्यते हतम् । उभौ तौ न विजानीतो नायं हन्ति न हन्यते' । इत्यत्र हन्तृत्वं जानतोऽज्ञत्वबोधनात् । गीतायामपि, 'प्रकृतेः क्रियमाणानि गुणैः कर्माणि सर्वशः । अहंकारविमूढात्मा कर्ता