भारतकोश
अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

DevanagariHindipublished2,600 पृष्ठ

पृष्ठ 1511, कुल 2600 में से

संदर्भ में पढ़ें
पृष्ठ 1511

भाष्यप्रकाश-रश्मि-परिवृंहितम् । १०५ जीवमेवाधिकृत्य वेदे अभ्युदयनिःश्रेयसफलार्थं सर्वाणि कर्माणि विहितानि ब्रह्मणोऽनुपयोगात् । जडस्याशक्यत्वात् । संदिग्धेऽपि तथैवाङ्गीकर्तव्यम् ॥ ३३ ॥ भाष्यप्रकाशः। 'कारीर्या वृष्टिकामो यजेत', 'ज्योतिष्टोमेन स्वर्गकामो यजेत', 'तज्जलानिति शान्त उपासीत,' 'अथ खलु क्रतुमयः पुरुषो यथा क्रतुरस्मिँल्लोके पुरुषो भवति तथेतः प्रेत्य भवति, स क्रतुं कुर्वीत' इत्यादिभिर्वेदेऽभ्युदयनिःश्रेयसफलार्थं सर्वाणि यज्ञादिरूपाण्युपासना रूपाणि च कर्माणि विहितानि । यदि जीवः कर्ता नेष्येत तदा स्वर्गकामादिपदानि तादृशफलेष्वधिकारिशून्यानि कुप्यन्ति तत्तच्छास्त्रवैयर्थ्यमेवापादयेयुः । न हि तादृशकामवत्त्वं ब्रह्मणः संभवति । आत्मकाम- त्वेन तत्फलानुपयोगात् । न वा जडस्य बोधाभावेन तादृशकामाभावेन चाशक्यत्वात् । अतः पूर्वोक्तवाक्यैः संदिग्धेऽपि कर्तृत्वे बहूनामनुग्रहस्य न्याय्यत्वात् तत्तत्फलकामिनां जीवानामेव कर्तृत्वमङ्गीकार्यम् । नच, हन्ता चेदित्यस्य कोपः । आत्मनो नित्यत्वेन वध्यत्वाभावात् । तादृश- ज्ञानस्य मिथ्यात्वबोधनेनोपपद्यमानत्वात् । 'प्रकृतेः क्रियमाणानि' इत्यादिगीतावाक्येषु पौराणिकेषु च यद् गुणानामेव कर्तृत्वं खस्मिन्नध्यस्यतीत्युच्यते तदपि लौकिककर्तृत्वाभ्यासपरम् । 'न हि कश्चित् क्षणमपि जातु तिष्ठत्यकर्मकृत् । कार्यते ह्यवशः कर्म सर्वः प्रकृतिजैर्गुणैः' ॥ इति वाक्ये लोकप्रवाहपतितस्य कर्मणः प्राकृतगुणप्रयुक्तत्वबोधनात् । न तावता सर्व- विधकर्तृत्वलोपः । 'अधिष्ठानं तथा कर्ता करणं च पृथग्विधम् । विविधाश्च पृथक् चेष्टा दैवं चैवात्र पञ्चमम् ॥ शरीरवाङ्मनोभिर्यत् कर्म प्रारभते नरः । न्याय्यं वा विपरीतं वा पञ्चैते तत्र हेतवः ॥ तत्रैवं सति कर्तारमात्मानं केवलं तु यः । पश्यत्यकृतबुद्धित्वान्न स पश्यति दुर्मतिः' ॥ इति गीतायामेव जीवस्य कर्तृत्वं कर्तेतिपदेनोक्त्वा तस्याधिष्ठानादिपञ्चहेतुसापेक्षत्वं निरूप्य केवलस्य स्वस्य कर्तृत्वाभिमाने दुर्मतित्वबोधनेन घृतद्रवत्ववत् तस्य लौकिकस्यापि रश्मिः। जीवमेवेति भाष्यं विवृण्वन्ति स्म कारीर्येति । कारीरीज्योतिष्टोमौ यागनामधेये । तज्जलानिति सर्वत्र प्रसिद्धोपदेशाधिकरणविषयवाक्यमिदम् । इत्यादिभिः आदिशब्देन 'पुण्यः पुण्येन' 'एष उ एव साधुकर्म कारयति यमुन्निनीषति' इति श्रुती । वेदे इति वेदान्तानां वेदत्वं 'स्मृतेश्च'इति सूत्रे भाष्ये प्रसाधितम् । ब्रह्मण इति भाष्यं विवृण्वन्ति स्म नहीति । जडस्येति भाष्यं विवृण्वन्ति स्म न वेति । आधिदैविकवादेन प्राशस्त्यं निषेधः । सन्दिग्धेति भाष्यं विवृण्वन्ति स्म अत इत्यादि । पूर्वोक्तेति हन्ता चेदित्यादिभिः । कर्तृत्व इति कारीर्यादिवाक्योक्ते । अध्यस्यतीति कर्ताहमित्येवम् । लौकिकेति लौकिकत्वं लोकप्रवाहपतितत्वम् । लोकशब्दाद्भवार्थे ठञ् । अलौकिककर्तृत्वं तु कर्ता जीव एवेति भाष्यरश्म्युक्तम् । पृथगिति दशविधम् । अकृतेति न कृता शास्त्रीया बुद्धिर्येन सोऽकृतबुद्धिस्तत्त्वात् । घृतेति घृते द्रवत्वं नैमित्तिकम् । सांसिद्धिकं जले । १४ ब्र० सू० २० 1401