भारतकोश
अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

DevanagariHindipublished2,600 पृष्ठ

पृष्ठ 1512, कुल 2600 में से

संदर्भ में पढ़ें
पृष्ठ 1512

An exact, line-by-line transcription of the provided page into Markdown in Unicode Devanagari:

१०६ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [अ० २ पा० ३ अ० १४ सू० ३४ विहारोपदेशात् ॥ ३४ ॥ तस्यैव गान्धर्वादिलोकेषु, यद् यत् कामयते तत् तद् भवति' इति विहार उपदिष्टः । ततश्च कर्तृत्वभोक्तृत्वयोः 'साधुकारी साधुर्भवति' इति सामानाधि- करण्यश्रवणाज्जीव एव कर्ता ॥ ३४ ॥ भाष्यप्रकाशः। नैमित्तिकात्मधर्मत्वबोधनादिति ॥ ३३ ॥ विहारोपदेशात् ॥ ३४ ॥ जीवस्य स्वतः कर्तृत्वाभावेऽपि प्रकृतिसंसृष्टत्वेन विवेकाग्रहाद् तादृशकर्तृग्रहणेऽपि शास्त्रसार्थक्यमिति शङ्कायां सूत्रोक्तं हेत्वन्तरं व्याकुर्वन्ति तस्यैवेत्यादि । छान्दोग्ये दहरविद्यायां, 'स यदि पितृलोककामो भवति' इत्यादिना, 'यं कामं कामयते सोऽस्य संकल्पादेव समुत्तिष्ठति तेन संपन्नो महीयते' इत्यन्तेन

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित) · पृष्ठ 1512, कुल 2600 में से · BharatKosha