अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 151, कुल 2600 में से
संदर्भ में पढ़ेंधर्मो यज्ञःप्रदः सुखदश्चातः करोमीत्यादाविहेष्टव्यतःपदप्रयोगदर्शनादयमेवार्थो न त्वन्यविध इत्यर्थः । नन्वस्य प्रथमसूत्रत्वादत्र प्रेक्षावत्प्रवृत्तिसिद्धयर्थमधिकारिविषयसंबन्धप्रयोजनानि
रश्मिः ।
संजातया भक्त्या' इति वाक्यानुभवात् । न च प्रमाणाभावः 'नायमात्मा बलहीनेन लभ्यः' इति श्रुतिगुंभात् । बलं भक्तिरिति भाष्यम् । न च प्राणो वै बलमिति शङ्क्यम्, अप्रकरणात् । न च ज्ञानं तत्, 'ब्रह्मविदाप्नोति' इति श्रुतेः । मैवम् । 'भक्तिरहस्यभजनं तदिहामुत्र फलभोग- नैराश्येनामुष्मिन्मनःकल्पनम्' इति उद्देश्यविधेयभावात् । ज्ञानत्वेन सर्वात्मभावमुद्दिश्य ज्ञानं तु गीतायां विहितमिति । किं च 'भक्त्याहमेकया ग्राह्यः' इति स्मृतिर्वेदविरोधाभावात्स्वमूलं श्रुतिं ज्ञापयिष्यति । ननु 'ब्रह्मविदाप्नोति परम्' 'तमेव विदित्वा' इत्यादिविप्रकृष्ट