भारतकोश
अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

DevanagariHindipublished2,600 पृष्ठ

पृष्ठ 152, कुल 2600 में से

संदर्भ में पढ़ें
पृष्ठ 152

भाष्यप्रकाश-रश्मि-परिवृंहितम् । ६५ अधिकारी तु त्रैवर्णिक एव। न हि वेदविचारस्य वेदाधिकारिव्यतिरिक्तः शक्यते कल्पयितुम्। न हि मन्दमतेर्वेदोनार्यातीति त्रैवर्णिके मतिमत्त्वमधि- कारिविशेषणं कल्प्यते। अन्धपङ्ग्वादीनामिव कर्मणि, गृहाद्यासक्तस्य मननाद्य- संभवात् साक्षात्कारो न भविष्यति। न च धर्मन्यायेन गतार्थत्वमस्य। अप्रतिज्ञानादनुपलब्धेश्च। न च जगत्कारणं परमात्मा वा प्रकृतिर्वा परमाणवो वेति संदेहे किंचिदधिकरणमस्ति। भाष्यप्रकाशः। भाष्यानि। तत्रानन्तर्यपक्षे विचारितधर्मो वा शमादिमान् वाधिकारी प्राप्यते। अधिकारपक्षे तु तदप्राप्त्या शास्त्रस्यानर्थक्यप्रसङ्गः, सर्वाधिकारकत्वं वा स्यादित्याशङ्कायामाहुः अधिकारी त्यादि। तथाच ब्रह्मणो वेदार्थत्वात् तद्विचारेऽधिकृते ब्रह्मजिज्ञासापदादेव तत्प्राप्तेर्न पूर्वोक्तो दोष इत्यर्थः। नन्वेवं त्रैवर्णिकाधिकारोपगमे तेषां सर्वेषामधिकारप्राप्त्या, शान्तो दान्त इति श्रुति- विरोधात् तत्संकोच आवश्यक इति शमाद्यानन्तर्यपक्ष एव श्रेयानित्यत आहुः नहि मन्देत्यादि। तथाच तत्र यथा मतिमत्त्वस्यार्थात् प्राप्तिस्तथात्राप्युपयुक्तस्य विशेषणस्य प्राप्तिरिति संकोचस्यानाव- श्यकत्वादधिकारो न दुप्यतीत्यर्थः। ननु यद्येवं स्याच्छ्रुतिः किमिति वदेदित्याकाङ्क्षायामाहुः अन्धेत्यादि। तथाच तेषां यथाज्यावेक्षणविष्णुकमक्रमणादिकरणाशक्त्या तत्कृतकर्मणो व्यङ्गत्वात् फलाजनकत्वं, तथैतदीयशाब्दज्ञानस्यापि व्यङ्गत्वात् साक्षात्कारजनकत्वमिति बोधयितुं फलोपका- राय वदति, आत्मन्येवात्मानं पश्येदिति। अतो विचारे स्वरूपोपकारार्थं शमाद्यनङ्गीकारेऽपि न श्रुतिविरोध इत्यर्थः। ननु यदि त्रैवर्णिकाधिकारेणार्थादध्ययनानन्तर्यसिद्ध्या तदर्थं वेदार्थभूतब्रह्म- विचारः प्रतिज्ञात इत्यायाति तदा शास्त्रवैयर्थ्यापत्तिः। धर्मजिज्ञासेत्यत्र धर्मशब्दस्य वेदार्थमात्रो- पलक्षकत्या पूर्वतन्त्रन्यायेनैव वेदार्थज्ञानसिद्धेरित्यत आहुः नचेत्यादि। धर्मन्यायेनेति पूर्वमीमांसया। अप्रतिज्ञानादिति जैमिनिना ब्रह्मविचारस्याप्रतिज्ञानात्। अनुपलब्धेरित्यस्यैव विवरणम्, न च जगदित्यादि। रश्मिः। प्राप्यत इति यथायथं रामानुजशंकराचार्यमते प्राप्यत इत्यर्थः। तत्प्राप्तेरिति त्रैवर्णिकाधिकार- प्राप्तेर्गतोक्तजिज्ञासुप्राप्तेश्चेत्यर्थः। अधिकारो नाम ब्रह्मानन्दज्ञातृत्वम्। 'मन्दाः सुमन्दमतयो मन्दभाग्या ह्युपद्रुताः' इति श्रोतुर्विशेषणान्मतिमत्त्वम्। 'शान्तो दान्तः' इति श्रुत्युक्तमित्यादि- शब्दः तृतीयाध्याये विचारयिष्यते। तत्संकोच इति त्रैवर्णिकानामधिकारविशेषसंकोच इत्यर्थः। तथा च तत्रेति पूर्वतन्त्र इत्यर्थः। अर्थादिति ज्ञानिनो विधेयत्वेन भक्तस्य स्वतःसिद्धत्वेन शमादय इति तत्रैवोक्तम्। एवं चाक्षेपादित्यर्थः। एवं स्यादिति अनावश्यकत्वं स्यादित्यर्थः। तेषां यथाज्येत्यादि। इदं पूर्वतन्त्रे षष्ठे 'फलार्थत्वातु कर्मणः शास्त्रं सर्वाधिकारं स्यात्' इत्यधिकरणे चिन्तितम्। व्यङ्गत्वादिति भावनाद्यसंभवाद्यङ्गत्त्वाद् 'अनियमः सर्वासाम्' इत्यधिकरणे महन्माहात्म्यवतां भक्तेरन्वशं साधनत्वोक्तेः साक्षात्कारो न भविष्यतीत्यर्थः। न श्रुतिविरोध इत्यर्थ इति दर्शनविधिशेषत्वात्तस्या इत्यर्थः। तथा च शमादिसहकृतमन- नादित्वेनात्मसाक्षात्कारत्वेन कार्यकारणभावः। विचारत्वेन शाब्दत्वेन च कार्यकारणभाव इति भावः। ननु मुख्यफलाभावे व्यर्थो विचार इत्याशङ्का तु अग्रे फलकामनाया अनुपयोगादिति भाष्य- १ प्र० सू० २ ० 65