अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 153, कुल 2600 में से
संदर्भ में पढ़ें६६ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० १ पा० १ अ० १ सू० १ स्यादेतत् । अथातो धर्मजिज्ञासेति धर्मविचारं प्रतिज्ञाय नोदकवाक्यार्थस्य धर्मत्वमुक्त्वा प्रामाण्यपुरःसरं सर्वे संदेहा निवारिताः । तत्र ब्रह्मज्ञानस्यापि धर्मत्वम् 'आत्मेत्येवोपासीत' 'आत्मानं लोकमुपासीत' 'तद् ब्रह्मेत्युपासीत' 'आत्मा वा अरे द्रष्टव्यः' इत्यादिनोदनावाक्यार्थत्वात् । 'अयं हि परमो धर्मो यद्योगेनात्मदर्शनम्' इति स्मृतेश्च । सृष्ट्यादिवाक्यानां त्वर्थवादत्वम् । आरोपाप- भाष्यप्रकाशः । एवमानन्तर्यपक्षे निरस्ते पूर्वमीमांसकोऽस्यास्त्रैवर्णिकाधिकारकत्वं सर्ववेदार्थज्ञानार्थत्वं च श्रुत्वा प्रत्यवतिष्ठते स्यादेतदित्यादि । यदि त्रैवर्णिक एवाधीतवेदोऽधिकारी, यदि च सर्ववेदार्थ एव ज्ञातुमिष्टस्तदा वक्ष्यमाणमेवाङ्गीकार्यमित्यर्थः । प्रामाण्यपुरःसरमिति औत्पत्तिकसूत्रे [