भारतकोश
अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

DevanagariHindipublished2,600 पृष्ठ

पृष्ठ 154, कुल 2600 में से

संदर्भ में पढ़ें
पृष्ठ 154

भाष्यप्रकाश-रश्मि-परिवृंहितम् । ६७ वादविषयधर्मप्रतिपादकत्वेन विधेयोपासनाविषयस्तावकत्वात् । न च ज्ञानादीनामविधेयत्वं प्रमाणवस्तुपरतन्त्रत्वेनाकृतिसाध्यत्वादिति वाच्यम् । न हि सर्वात्मना असाध्यम् । प्रकारभेदस्त्वप्रयोजकः । सर्वस्यापि कारणेषु पुरुषव्यापृतिः । तदत्र वृत्तिसंपादने प्रमाणासंपादने वा पुरुषकृतिसा- ध्यत्वम् । भाष्यप्रकाशः । विषयस्यात्मनः प्रशंसार्थं क्वचित् कर्तृत्वमारोप्यते, अन्यत्र च तदपोद्यते । क्वचित् सर्वकाDIR दिकं प्रतिपाद्यते, अन्यत्रापोद्यते । यदि तद्वास्त्वं स्यान्नापोद्येतेति तर्केणारोपपवादविषयो यः कर्तृत्वादिधर्मस्तत्प्रतिपादकत्वेन तेषां विधेयस्तावकत्वनिश्चयात् । सिद्धेऽर्थवादत्वे तेषां स्वार्थे तात्प- र्याभावेन ब्रह्मणि विरुद्धधर्माधारत्वादिकल्पनास्याप्रयोजकत्वात् । तदर्थत्वेऽपि गतार्थत्वमित्यर्थः । ननूपासनावाक्यशेषाणामस्त्वर्थवादत्वं, न तु ज्ञानवाक्यशेषाणामपि । ज्ञानस्य प्रमाणवस्तुभ्यां जायमानत्वेन तदर्थं कृत्यपेक्षाभावेन तस्य विध्यर्थत्वाभावात्, कृतिसाध्यत्वस्यैव विध्यर्थत्वात् । नच तव्यविरोधः आवश्यकार्थेऽपि जायमानत्वात् । अतस्तच्छेषाणां स्तावकत्वाभावेन तद्विचार- स्यावश्यकत्वाभात्सा गतार्थत्वमिति । शमाद्यानन्तर्यवादिनः शङ्कायामाह नचेत्यादि । आदिपदेनेच्छा- प्रयत्नो । तेन 'तदन्वेष्टव्यम्', 'तद्विजिज्ञासितव्यम्', 'मन्तव्यो निदिध्यासितव्यः' इत्यादीनां संग्रहः । तद् दूषयति नहीत्यादि । सविकल्पादिजनककृत्यपेक्षायास्तत्रापि सत्त्वात् तथेत्यर्थः । ननु तथापि कर्मवत् साक्षात्कृतिसाध्यत्वाभावात् कथं ज्ञानादीनां विधेयत्वमित्यत आह प्रकारेत्यादि । ज्ञाना- देरविधेयत्वसाधनायैवं प्रकारभेदो यः कल्प्यते सत्वविधेयताप्रयोजको न भवति । यतो धर्मस्या- पूर्वात्मकत्वेन तस्य सर्वस्यापि कारणीभूते क्रियाकलाप एव यत्नात्मा पुरुषव्यापारो दृश्यते, न तु साक्षात् । तत्तस्मादत्र ज्ञानादौ वृत्तिसंपादने बुद्धिजन्यायाः पदार्थान्तररूपाया बुद्धयवस्थाविशेष- रश्मिः । स्नापनात्तयेत्यर्थः । अयं हीति निश्चयेन । परो मीयते ज्ञायते येन तादृशो धर्मः स कः यद्योगः स च कर्मसु कौशलं ब्रह्मसेवारूपं भगवता स्वैश्वर्यस्य निर्विषयत्वपरिजिहीर्षया जीवाय दत्तं तेनात्म- दर्शनं ब्रह्मबोधनमिति योजना, इदमवान्तरफलं मुख्यमन्यदिति, सिद्धान्तमुक्तावल्यां स्फुटम् । क्वचिदिति 'यतो वा इमानि' इत्यादावित्यर्थः । आरोप्यत इति अध्यस्यत इत्यर्थः । अन्यत्रेति निष्कलं निष्क्रियमित्यादावित्यर्थः । क्वचिदिति सर्वकाम इत्यादावित्यर्थः । अन्यत्रेति अकाम इत्यादावित्यर्थः । विधेयस्तावकत्वेनेत्यादि विधेया योपासना तद्विषयीभूतात्मस्तावकत्व- निश्चयादित्यर्थः । ननु न प्रतीतं निषेधामत आह तदर्थत्वेऽपीति । विरुद्धधर्माधारत्वार्थ- त्वेऽपि, अर्थवादत्वेन गतार्थत्वमित्यर्थः । ज्ञानवाक्यशेषाणामिति । 'आत्मा वा अरे द्रष्टव्यः' इत्याद्युक्तानां ज्ञानानां वाक्यशेषा 'मैत्रेय्यात्मनो वा दर्शनेन श्रवणेन मत्या विज्ञानेन इदं सर्वं विदितम्' इत्याद्यास्तेषामित्यर्थः । प्रमाणवस्तुभ्यामिति इन्द्रियविषयाभ्यामित्यर्थः । शङ्काया- माहेति शङ्कायां प्राप्तायां न चेत्यादिनिषेधमाहेत्यर्थः । तथेति सर्वात्मना असाध्यत्वाभावनिश्चय इत्यर्थः । तदित्यव्ययमित्याशयेनाडुः तत्तस्मादिति । वृत्तिसंपादनेति पूर्वोक्तभाष्यं व्याकु- र्वन्ति बुद्धिजन्याया इति । पदार्थान्तरेत्यादि । व्याख्यातमेतत् । सांख्यैराहंकारिके तत्त्वान्तर- रूपत्वमङ्गीक्रियते इति पदार्थान्तररूपायाः । श्रुतीममुपनिषन्त्यनुसारेणाहुः बुद्धयवस्थेति । 67