अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 1515, कुल 2600 में से
संदर्भ में पढ़ेंअथवा शशविषाणायितमेव कर्तृत्वं संबन्धे समायाति । नाद्यः । जडत्वात् , अनङ्गीकारात् पूर्वं निराकृतत्वाच्च । द्वितीये त्विष्टापत्तिः । उपादानविरोधश्च । भाष्यप्रकाशः। दूषयन्ति नाद्य इत्यादि । बुद्धिर्हि जडा । जडगतं कर्तृत्वं चेतने समायातीति न क्वापि दृष्टम् । विपरीतं रथाऽऽदौ दृष्टम् । अतो नाद्यः । किंच । सूत्रकृता कुत्र वा जडे कर्तृत्वमङ्गीकृतं येनात्र तदाद्रियेत, यदि तथा स्यात् पूर्वं न प्रकृतेः कर्तृत्वं च रचनानुपपत्त्यादिसूत्रेषु निराकुर्यात्, अतोऽनङ्गीकारात्, पूर्वं निराकृतत्वाच्च नाद्य इत्यर्थः । द्वितीयं दूषयन्ति द्वितीये इत्यादि । कर्तृत्वस्य यद्यपि घृतद्रवत्ववज्जीवधर्मत्वसिद्ध्या इष्टापत्तिस्तथापि प्राणानामुपादेयतया श्रुतौ सिद्धत्वाद् बुद्धेरपि प्राणेष्वेव प्रवेशात् तत्संबन्धेनोद्गमाङ्गीकारे प्राणोपादानविरोधश्च । अतः सोऽपि नेत्यर्थः । नच जीवानां करणगोचरसाक्षात्काराभावात् तद्ग्रहणं कथमुपपद्यत इति वाच्यम् । जाग्रति स्वयंज्योतिष्ट्वाभावेन तत्साक्षात्काराभावेपि, 'अत्रात्मा स्वयंज्योतिर्भवति' इति श्रुत्या तदानीं स्वयंज्योतिष्ट्वेन करणानाडीप्रभृतिसाक्षात्कारसंभवे सुखेन तद्ग्रहणोपपत्तेः । नचैवं सति जाग्रति कदाचित् तत्स्मरणापत्तिः । निद्रया स्वयंज्योतिष्ट्वस्यैव ग्रहणादिविषयक- रश्मिः। संविज्ञानः । भाष्ये शशेति शशविषाणमिवाचारितं वा कर्तृत्वम् । एवकारस्तु व्याव- हारिकीं सत्तां व्यवच्छिनत्ति । संबन्ध इति शशशृङ्गं नास्तीत्यत्र शशशृङ्गाप्रसिद्ध्या प्रतियोगिरूपकारणज्ञानाभावान्नाभावज्ञानं स्यादिति प्रतियोगिप्रसिद्धौ शृङ्गे शशीयत्वाभाववद्बुद्धि- संबन्ध इत्यर्थः । समायातीति जीवे ब्रह्मणि वा । प्रकृते जडेति सत्वगुणरूपत्वात् । ज्ञानरूपा नैयायिकानाम् । अनङ्गीति भाष्यविवरणम् । किं चेत्यादि । पूर्वमिति द्वितीय- पादारम्भे । भाष्यविवरणं कर्तृत्वस्येत्यादि । घृतेति नैमित्तिकं द्रवत्वम् । दार्ष्टान्तिके बुद्धि- र्निमित्तम् । प्राणानामिति प्राणविज्ञानानाम् । धर्मे धर्मिण आधेयतासंबन्धो लक्षणा । बुद्धेरिति कर्तृत्वनिमित्तायाः । उद्गमेति कर्तृत्वोद्गमाङ्गीकारे । प्राणेति जीवानां निराकारत्वेन हस्तधर्मभूतोपादानविरोधः । गृहीतः प्राण इत्यत्र ग्रह उपादान इति धातुपाठात् । स इति द्वितीयः पक्षः । 'हस्तौ चादातव्यं च' इति श्रुत्या निराकारस्य हस्ताभावा- त्करणानीन्द्रियाणि तेषां विषया गोचरा उपादानादयस्तेषां साक्षात्काराः प्रत्यक्षाणि तेषाम- भावादित्यर्थः । हस्ताभावाद्गोचरोपादानाभावस्तदभावात्तत्साक्षात्काराभावस्तस्मात् । तद्ग्रहणं प्राणोपादानम् । जानातीच्छति यतत इति तत्तत्कारणपरंपरा तदभावात्कथमिति प्रश्नः । करणे- त्याद्यव्यवहितग्रन्थात् । स्वप्ने निराकारत्वाभावादुपपत्तिमाहुः जाग्रतीति । अत्रेति स्वप्ने प्रकरणात् । तदानीमिति सुप्तस्य विज्ञानकाले । स्वयमिति न तु करणादिद्वारा । करणेति हस्तादीत्यर्थः । दृष्टानुरोधेन साक्षात्कारसंभवे तद्ग्रहणेति प्राणग्रहणोपपत्तेः । तत्स्मरणेति अनुभवस्य स्वसजातीयगोचरविषयकस्मरणजनकसंस्कारजनकत्वनियमेन चाक्षुष- स्मरणवत् प्राणग्रहणस्मरणापत्तिः । तमस्त्वेन ज्ञाननाशकत्वेन कार्यकारणभावादाहुः निद्रयेति निद्रा 'तमस्त्वज्ञानजं विद्धि' इतिवाक्यात्तामसी तया विषयाग्रहणरूपया । ननु स्वयं- ज्योतिष्ट्वं निद्रान्तर्गतं कथं निद्रया तिरस्कार्यमिति चेन्न निद्रापदेन तच्चरमवृत्तेर्विवक्ष- णात् । जाग्रदवस्थाप्रागभावाधिकरणक्षणस्य निद्राक्षयाधिकरणक्षणत्वात् । तथापि प्रागभावा- १. चरितं ।