भारतकोश
अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

DevanagariHindipublished2,600 पृष्ठ

पृष्ठ 1516, कुल 2600 में से

संदर्भ में पढ़ें
पृष्ठ 1516

११० श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० २ पा० ३ अ० १४ सू० ३५ तृतीये शास्त्रविरोधः । ब्रह्मणि सिद्धत्वाच्च । असत्कार्यस्य निराकृतत्वात् । सर्वविप्लवस्तु माध्यमिकवदुपेक्ष्यः ॥ ३५ ॥ भाष्यप्रकाशः । संस्कारस्यापि तिरस्कारात् । न च तिरस्कारे मानाऽभावः । कार्याभावेनैव तथानुमानात् । अथवा, उपेक्षाज्ञानादिव तादृशज्ञानादपि संस्कारानुत्पत्तिरुपेक्षाज्ञानवत्तदपि त्रिष्वप्यवस्थास्वेवेति वा श्रुतार्थापत्त्या कल्पनीयमतो न दोषः । न च द्वितीयस्कन्धे, 'आत्मा यथा खमलेक्षितैकः' इत्यत्र खम्रादौ भगवत एव द्रष्टृत्व- प्रतिपादनान्न तत्र जीवस्य द्रष्टृत्वमिति शङ्क्यम् । तत्र, 'स सर्वधीवृत्त्यनुभूतसर्वः' इत्यत्रोक्तायाः भगवतो द्रष्टृत्वप्रतिज्ञायाः पूर्तये भगवतो द्रष्टृत्वव्युत्पादनेऽपि जीवद्रष्टृत्वस्यानपेषात् । अन्यथा खम्राद्यनुसरणाभावप्रसङ्गात्

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित) · पृष्ठ 1516, कुल 2600 में से · BharatKosha