अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 1518, कुल 2600 में से
संदर्भ में पढ़ें११९ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० २ पा० ३ अ० १४ सू० ३६ कर्तृत्वं न चेत् न । तथा सति निर्देशस्य विपर्ययो भवेत् । विज्ञानेन विज्ञान- मादायेति श्रुत्यनुरोधात् । प्रकृतेऽपि तृतीयान्तता आपद्येत । अथ स्वव्यापारे कर्तृत्वं, तथापि पूर्वनिर्देशस्य विज्ञानमयस्य विपर्ययः स्याद् विकारित्वं स्यात् तच्चासङ्गतम् । त्र्यच्त्वात् । भाष्यप्रकाशः। श्रुतौ विज्ञानपदेन बुद्धिरेवोच्यते । सांख्ये बुद्ध्यादीनां प्राकृतानामेव कर्तृत्वं व्यवस्थापितं न जीवस्य इति हेतोः क्रियायां यागादिषु वैदिकेषु लौकिकेषु च कर्मसु जीवस्य न कर्तृत्वम्, क्रियापदाद् भोगे कर्तृत्वं न पूर्वपक्षिणा प्रतिषिध्यते । तथाच क्रियायामेव जीवस्य कर्तृत्वं नेति चेन्न । इदं वक्ष्यमाणहेतुना सेत्स्यमानकथनम् । तथा सति विज्ञानपदेन बुद्धेरेव व्यपदेशेऽङ्गीकृते सति तथेत्यर्थः । ननु कारकमात्र