अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 1519, कुल 2600 में से
संदर्भ में पढ़ेंभाष्यप्रकाश-रश्मि-परिवृंहितम् । ११३ विज्ञानमादायेत्यत्र विपर्यय एव एकस्य प्रदेशभेदेनार्थभेदोऽपि । भगवति सर्वे शब्दाः स्वभावत एव प्रवर्तन्ते । औपचारिकत्वज्ञापकाभावात् । यज्ञो यजमान इति श्रद्धादीनां शिरस्त्वादिः । तस्माद् विज्ञानमयो जीव एव । भाष्यप्रकाशः। विज्ञानमादायेत्यत्र विपर्यय एव वर्तत इति तन्न न दोषत्वमिति वक्तुं शक्यते, तथापि एकस्य विज्ञानस्य जीवधर्मतया प्राणधर्मतया च प्रदेशभेदेनार्थभेदोपि तत्राभिप्रेत इति तन्न न विपर्ययस्य दोषत्वम् । अत्र तूभयत्राप्येक एव विज्ञानपदार्थः परामृश्यत इत्यत्र तु विपर्ययोऽ- दोष एवेत्यर्थः । ननु विज्ञानपदस्य जीववाचकत्वे 'विज्ञानमानन्दं ब्रह्म' इत्यत्र विज्ञानपदस्य ब्रह्मण्यौपचारिकत्वं स्यादतो नेदं साधीय इत्यत आहुः भगवतीत्यादि । सर्वे शब्दाः प्रणवविकृतित्वात्प्रणववाच्ये ब्रह्मणि स्वभावत एव प्रवर्तन्ते । 'सर्वे वेदा यत्पदमामनन्ति' इति श्रुतेश्च । अतस्तत्रौपचारिकत्वज्ञापकाभावान्न तथेत्यदोष इत्यर्थः । नन्विदं विज्ञानमयपदस्य विकारार्थत्वानुपपत्त्यनुरोधेनोक्तम् । सा तु नास्ति । छन्दसि सर्वेषां विधीनां वैकल्पिकत्वाभ्युप- गमात्, नचात्र विकारप्रत्ययत्वे मानाभावः । तत्र श्रद्धादीनां मनोवागादिधर्माणां शिरआदित्व- कल्पनाया एव मानत्वादित्यत आहुः यज्ञ इत्यादि । सत्यमस्ति कल्पना, परंतु न तस्या रश्मिः। क्रम्य । बहुजिति । 'द्व्यचश्छन्दसि' इत्यस्य सूत्रस्य छन्दसि चेद्विकारे मयड्भवद् द्व्यच एवेति सूत्रार्थान् । जीवेति विज्ञानपदस्य । भोक्तापत्तिसूत्रे 'अणुः पन्था विततः पुराणः' इति बृहदारण्यकादेव- कारः । विज्ञानमादायेति भाष्यं विवृण्वन्ति स्म यद्यपीति । विपर्यय इति द्वितीया- श्रुत्या कर्तृत्वविपर्ययः । 'विज्ञानं देवाः सर्वे ब्रह्मज्येष्ठमुपासते' । 'विज्ञानं ब्रह्म चेद्वेद तस्माच्चेन प्रमाद्यति' इति श्रुतिभ्यामेवकारः । तस्येति विपर्ययस्य । जीवेति जीवतीति जीवः । जीवयतीति जीवः परमात्मा तस्य धर्मतया । प्राणेति प्राणानामिन्द्रियाणां धर्मतया च । प्रदेशभेदस्तु हृदि जीवो हृदि प्राणः प्रतिष्ठितः ईश्वरश्च । तत्र प्राणो वेदशाखीयः । ब्रह्मजीवौ समानवृक्षे भवतः । 'ईश्वरः सर्वभूतानां हृद्देशेर्जुन तिष्ठति' तस्य चैतन्यगुणविशिष्टो जीव इति हृद्यपि । प्राणास्त्वि- न्द्रियाण्यपि तेषां प्रदेशाः नासाग्रजिह्वाग्रादय इत्येवं सः । अयवेति भाष्यविवरणम् । अर्थभेद इति तेन । अर्थभेदस्तु प्राणादिसंज्ञया । तत्रेति एकविज्ञाने । तत्रेति उक्तश्रुतिषु । कर्तृत्वविपर्ययस्य दोषत्वं तृतीयान्ततापत्तिः । अत्रेति विज्ञानेन विज्ञानमादायेत्यत्र । एकः ज्ञानजनकशक्तिरूपः । टीकाग्रन्थादेवेकारः । अत्र त्विति विज्ञानेनेति श्रुतौ तु । तृतीयान्तकर्तृत्वविपर्ययोऽदोष एव । अदोष इति छेदः । टीकाग्रन्थादेवकारः । सर्व इति सर्वान्तर्गतत्वं 'सत्यं विज्ञानमानन्दं ब्रह्म' इति श्रुतेः पद्मपुराणेन श्रीयमुनाजित्परत्वात् । स्वभावत इति अभिधातात्पर्याभ्याम् । अर्थमात्रात्मके कृष्णे तात्पर्यवृत्तिः । मण्डूकश्रुतेरेवकारः । आमनन्तीति म्ना अभ्यासे अभ्यसन्तीत्यर्थः । पुनः पुनः कथनम्प्रयासः । अदोष इति औपचारिकत्वं दोषो न । अभ्युपेति । 'विभाषा छन्दसि' इति सूत्र इति शेषः । तत्रेति विज्ञानमये । मन इति श्रद्धा मनोधर्मः । 'कामः संकल्पः' इति बृहदारण्यकात् । श्रुतसत्ये वाग्धर्मों । तत्प्रतिपाद्यत्वात् । योग आत्मा धर्मोऽपि । महर्लोकः स्वर्लोकधर्मस्तत्प्रतिष्ठितत्वादिति । कल्पनेति कल्पना विकार इति भावः । प्रसिद्धेरेवकारः । १५ ब्र० सू० २० 1409