अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 1524, कुल 2600 में से
संदर्भ में पढ़ें११८ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० २ पा० ३ अ० १४ सू० ३९ नपुंसक एवमुच्येतेति बाह्यवत् । निरिन्द्रियस्यैव समाधिरित्यपि । करणत्वेन बुद्धिं भाष्यप्रकाशः। हेतुः नपुंसक इत्यादि । नपुंसक इति सातन्त्र्यादिसर्वपुरुषधर्मशून्यः इति बाह्यवदिति, अयमभ्युपगमो बाह्यानामिव प्रमाणरहितः । तथाच प्रमाणराहित्यादस भ्रमत्वमित्यर्थः । अत्र हेतुस्तु मुक्तानामपि शुकसनत्कुमारादीनामुपदेशकर्तृत्वदर्शनम् । भूमविद्यायां 'तस्य ह वा एतस्यैवं पश्यत एवं मन्वानस्यैवं विजानत आत्मतः प्राणः' इत्यारभ्य, 'आत्मतः कर्माण्यायत एवेदं सर्वम्' इत्यन्तेन पश्यस्य संकल्पादीनामात्महेतुकत्वश्रवणं च बोध्यम् । यदुक्तं, समाध्यभावश्च शास्त्रार्थवत्त्वेनैव परिहृतो यथाप्राप्तमेव कर्तृत्वमादाय समाधिविधानादिति तद् दूषयन्ति निरि- न्द्रियस्यैव समाधिरित्यपीति अध्यासशून्यतया इन्द्रियाद्यभिमानरहितस्यैव समाधिर्मुख्य इत्यपि बोध्यमित्यर्थः । अत्रापि भूमविद्यास्थं वाक्यमेव हेतुः । ननु कैवल्यात् पूर्वं जीवन्मुक्त- स्यापि लिङ्गसद्भावाद् बुद्धिसंबन्धोऽस्त्येवेति कथं निरिन्द्रियत्वमत आहुः करणत्वेनेत्यादि । रश्मिः। स्वेति सांख्यः पुरुषस्तस । भ्रम इति । परप्रत्तिकर्तृत्वसमानाधिकरणमुक्त्यभावाभावरूपमुक्ति- मति ब्रह्मविदि कर्तृत्वसमानाधिकरणमुक्त्यभावप्रकारकं ज्ञानं भ्रमः । तदभाववति तत्प्रकारकं ज्ञानं भ्रमः । दशगणीमध्ये यस्याः कस्याश्च कृतेर्यस्य कस्य व्यापारस्यावर्जनीयत्वात् । कृतिमत्त्वं कर्तृत्वम् । धातूपात्तव्यापाराश्रयत्वं वा कर्तृत्वम् । अत्रेति तथा च सति सप्तम्याः सामानाधि- करण्यमर्थः । कर्तृत्वसमानाधिकरणमुक्तित्वावच्छिन्नप्रतियोगिताकाभाव इति भाष्यार्थः । स्वातन्त्र्या- दीति आदिशब्देन कामक्रोधावशत्वम् । प्रमाणेति, तथा च जन्यजनकभावसंबन्धेन प्रमाण- राहित्यादेतद्वाक्यजन्यज्ञानस्य भ्रमत्वमित्यर्थः । आप्तवाक्यं प्रमाणं, पदसमूहे नाप्तवाक्यत्वं दोषः । तथाचाप्रमाणसाहित्यादस भ्रमत्वमित्युक्तम्। इति बाह्यवदित्युक्त्यातिशौक्तिकत्वादभ्युपगमे युक्तिः । नपुंसक ऊर्ध्वरेताः कामवशेन सर्वसह इति । ननु 'पितु रेतोरिरेकात् पुरुषो मातु रेतोरिरेकात् स्त्री उभयोर्बीजतुल्यत्वान्नपुंसकम्' इति श्रुतेरन्यविधं नपुंसकत्वं कुतो नोक्तमिति चेत्सत्यम् । वेदबाह्यग्रन्थत्वान्नोक्तम् । अत्रेति कर्तृत्वसमानाधिकरणमुक्तत्वे । उपेति स्पष्टं श्रीभागवते । मुक्तस्य सर्वेन्द्रियलये कर्तृत्वसमर्पिकां श्रुतिं वक्तुमाहुः भूमेति । अर्थस्तु लिङ्गभूयस्त्वाधिकरणे तृतीयाध्याये भाष्ये स्पष्टः । पश्यस्येति ज्ञानिनः । यदुक्तमिति शंकराचार्यैरित्येति वक्ष्यमाणसूत्र- भाष्ये यदुक्तम् । समाधीति । द्रष्टव्य इति समाधिः । 'आत्मा वा अरे द्रष्टव्यः' इत्यत्र वेदान्त- श्रवणपरित्यक्तोपाधेरकर्तृत्वेन यः समाध्यभावः समाध्यभावप्रसङ्गस्तस्मादिति सूत्रार्थः । कर्तृत्वं जीवस्य शास्त्रार्थवत्त्वमुच्यते यथेति । यत्र हि द्वैतमिव भवतीत्यादिशास्त्रेण यथावत्प्राप्तम् । एवकारस्तु तद्युक्तिभिः । समाधिरिति समाधिपादस्थे निर्बीजसबीजसमाधी योगसूत्रे शंकराचार्योक्त- समाधिर्विनिगमनादे सूत्रांशोर्थत्वेन व्याख्यातः । सूत्रं तु 'तदेवार्थमात्रनिर्भासं स्वरूपशून्यमिव समाधिः' इति सूत्रे तज्ज्ञानं तदेव ध्यानमेवेत्यर्थः । मुख्य इति । ननु मुख्यपदं भाष्ये नास्ति । नैष दोषः । गौणमुख्ययोर्मुख्ये कार्यसंप्रत्ययमालोच्योक्तं समाधिपदम् । बोध्यमिति 'नै