अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 1523, कुल 2600 में से
संदर्भ में पढ़ेंभाष्यप्रकाश-रश्मि-परिवृंहितम् । ११७ नच सहजकर्तृत्वे अनिर्मोक्षः । पराधीनकर्तृत्व एवैतत् । ब्रह्मवत् । सांख्यस्य तन्मतानुसारिणो वान्यस्य भ्रम एव । कर्तृत्वे न मुक्तिरिति । भाष्यप्रकाशः। मन्त्राभावः। यथा 'भूमिर्भूम्ना द्यौर्वरिणेत्याहाशिषमेवैतामास्ते' 'सर्पा वै जीर्यन्तोऽमन्यन्त स एतं कसणीरः काद्रवेयो मन्त्रमपश्यत्ततो वै ते जीर्णास्तनूरपाघ्नत' इति । अत्र सांख्यास्तदनुसारिणो मायावादिप्रभृतयश्च जीवस्य बुद्धिसंबन्धादौपाधिकं कर्तृत्वमङ्गीकुर्वन्तः स्वाभाविके जीवस्य कर्तृत्वे यथा वह्नेरौष्ण्यान्न निवृत्तिस्तथा जीवस्य कर्तृत्वान्न निवृत्तिः स्यात् । तन्निवृत्तौ च मोक्षोऽपि न स्यात् कर्तृत्वस्य दुःखरूपत्वादित्याहुः तद् दूषयन्ति नचेत्यादि । पराधीन- कर्तृत्व एवैतदिति । आध्यासिक एव कर्तृत्वे अनि