भारतकोश
अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

DevanagariHindipublished2,600 पृष्ठ

पृष्ठ 1522, कुल 2600 में से

संदर्भ में पढ़ें
पृष्ठ 1522

११६ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [अ० २ पा० ३ अ० १४ सू० ३८-३९ शक्तिविपर्ययात् ॥ ३८ ॥ नन्वीश्वरवत् स्वार्थमन्यथा न कुर्यादिति चेच्छक्तिविपर्ययात् । तथा साम- र्ध्याभावात् । इत एव दैवादहितमपि करोति ॥ ३८ ॥ समाध्यभावाच्च ॥ ३९ ॥ जीवस्य क्रियाज्ञानशक्ती योगेन सिध्यतः । समाध्यभावाच्छक्त्यभाव इत्यर्थः । चकारात् तादृशमन्त्राभावोऽपि । भाष्यप्रकाशः । आत्मनां विभुत्वाभ्युपगमेन सर्वेषां सन्निधानस्याविशिष्टत्वात् । अत एव नान्तःकरणादिनापि व्यवस्थासिद्धिरित्याहुः । तदपि युक्तम् ॥ ३७ ॥ शक्तिविपर्ययात् ॥ ३८ ॥ सूत्रमवतारयन्ति नन्वित्यादि । अयमर्थः । चक्षुषा अनिष्टोपलब्धिर्या जायते सा न स्वप्रयत्नसंपाद्या । प्रमाणवस्तुपरतन्त्रत्वेन दैवाज्जायमानत्वात्, कर्म तु न तथा, स्वयन्निष्पाद्यत्वात्, अतः कर्मजनितेष्टानिष्टोपलब्धिदृष्टान्तो न युक्तः । अतो यदि जीवः स्वतः कर्ता स्यात् तदा स्वार्थमनिष्टं न कुर्यात् । यथा ईश्वरः स्वार्थमनिष्टं न करोति तद्वत् । दृश्यते च तत् । अतो न जीवः कर्तेति । अत्र समाधिं व्याकुर्वन्ति तथेत्यादि । विपर्ययोऽभावः । तथाच शक्त्यभावान्दिष्टकरणम् । ईश्वरे तु शक्तिरस्तीति न स दृष्टान्तः, अतोऽनिष्टकरणं न साहजिककर्तृत्वबाधकमित्यर्थः ॥ ३८ ॥ समाध्यभावाच्च ॥ ३९ ॥ शक्त्यभाव एव कुत इत्याकाङ्क्षायामेतत्सूत्रं प्रवृत्त इत्याशयेन विवृण्वन्ति जीवस्येत्यादि । स्पष्टम् । तादृशमन्त्राभाव इति सामर्थ्यसाधक- रश्मिः । भोगाय स्फुरित्यन्वयः । अत एवेति आत्मनां विभुत्वेत्याद्युक्तहेतोरेव । हेत्वन्तरव्यवच्छेदार्थेवकारः । नान्तरिति अन्तःकरणेन विषयोपसेवनं क्रियते न विषयव्यवस्था क्रियते । आदिशब्देन धर्मः । तेनापि विषया उपस्थाप्यन्ते न व्यवस्थाप्यन्ते इति तथा । तदपीति सूत्राणां सारवद्विश्व- तोमुखत्वात्कर्तृत्वसाधनप्रकरणे प्रकृतिकर्तृत्वखण्डनं प्राप्नोतीति । अपिर्गर्हायाम् । अपि स्तुया- द्वृषलमितिवत् ॥ ३७ ॥ शक्तिविपर्ययात् ॥ ३८ ॥ स्वेति स्वं जीवः । प्रमाणेति । वस्तु विषयः । दैवादिति अधर्मात्, प्रमाणवस्तुपस्थापकात् । तथेति प्रमाणवस्तुपस्थापकत्वेन प्रकारेण । स्वयमिति जनिका क्रिया यत्नः । आत्मनिष्ठेति नैयायिकाः । अधर्मोऽदृष्टमपूर्वम्, कर्म तु तज्जनकमिति भेदः । न युक्त इति कार्यकारणयोर्दृष्टान्तदार्ष्टान्तिकयोर्विशिष्टत्वात् । न कुर्यादिति । बलवदनिष्टाननुबन्धी- ष्टसाधनताज्ञानस्य सहकारिप्रवर्तकस्याभावात् । न करोतीति 'कृष्णायाक्लिष्टकारिणे' इति श्रुतेः । शक्त्यभावादिति । शक्तिः सामर्थ्यं ज्ञानक्रियाशक्त्यभावात् । न स दृष्टान्त इति स ईश्वरो न दृष्टान्तः । इत्यर्थ इति ज्ञानक्रिययोः सामर्थ्यसाधनं कारणमित्यर्थः ॥ ३८ ॥ समाध्यभावाच्च ॥ ३९ ॥ स्पष्टमिति । 'जन्मौषधिमन्त्रतपःसमाधिजाः सिद्धयः' इति कैवल्यपादस्थयोगसूत्रात्स‌माधिरूपयोगजसिद्धी शक्ती इत्यर्थः । एवं स्पष्टमित्यर्थः । सामर्थ्येति 1412