भारतकोश
अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

DevanagariHindipublished2,600 पृष्ठ

पृष्ठ 1527, कुल 2600 में से

संदर्भ में पढ़ें
पृष्ठ 1527

भाष्यप्रकाश-रश्मि-परिवृंहितम् । १२१

भाष्यप्रकाशः। अपश्यत्त्वादिकं प्रतिपाद्य विभक्तत्वनिषेधेनाविभागानुसंधानदशायां द्वितीयस्य विभक्तत्वेन

रश्मिः।

द्वैतमिवेत्यारभ्यासमाप्ति संसारिप्रकरणम् । तस्य समानं प्रकरणं द्वितीयमैत्रेयीब्राह्मणे यद्वै तन्न पश्यतीत्यारभ्यासमाप्ति संसारिप्रकरणम् । तत्र षष्ठ्यन्तसोभयत्रान्वयः । अपश्यत्त्वेति । यद्वै तन्न पश्यतीत्यपश्यत्त्वम् । अपश्यत्वादिकमिति पदच्छेदः । आदिना पश्यत्त्वम् ‘पश्यन्वै तद्रष्टव्यं न पश्यति’ इति श्रुतेः । तदुभयं प्रतिपाद्य ‘नहि द्रष्टुर्दृष्टेर्विपरिलोपो विद्यतेऽविनाशित्वात्’ इत्यनया प्रथम- प्रतिज्ञाहेतुमुखेनापश्यत्त्वं प्रतिपाद्य ‘न तु तद्वितीयमस्ति ततोऽन्यद्विभक्तं यत्पश्येत्’ इत्यनया विशेषप्रज्ञानाभावरूपद्वितीयप्रतिज्ञाहेतुमुखेन पश्यत्त्वं च तत्र द्वितीयं प्रमातृ, अन्यच्चक्षुरादिकम्, विभक्तं प्रमेयम्, एतत्त्रयं प्रमातृप्रमाणविषयचैतन्यात्मकम् । परंतु चकाराभावाच्चैतन्यविभ............ दुरूह इति बोध्यम् । क्त्वान्तः प्रयोगः प्रतिपाद्येति । अतस्ततोऽन्यद्विभक्तमित्यादेरार्थिकार्थ उच्यते विभक्तत्वेत्यादिना । ततस्तत इत्यस्य द्रष्टृदृष्टिभ्यामित्यर्थस्तत्र विभक्तत्वनिषेध आर्थिकस्तेनेत्यर्थः । अविभागेति । न त्वभेदानुसंधानदशायामतोन्यशब्दो गौणोपि नेत्यपि भावः । अयमर्थः । भेदा- भेदवादे एवं च परममुक्तिदशायामपीत्यादिनेयं श्रुतिरुपन्यस्ता । तत्र च द्वैतदृष्टिनिवृत्त्या ‘यथोदकं शुद्धे निक्तं तादृगेव भवति एवं मुनेर्विजानत आत्मा भवति गौतम’ इति काठकश्रुत्या भेदप्रतीत्य- भावरूप एवाभेदो न भेदाभावरूप इत्यभेदो भेदप्रतीत्यभावरूपोऽवतारितः । स यथा ‘यद्वै तन्न पश्यति पश्यन्वै तद्रष्टव्यं न पश्यति नहि द्रष्टुर्दृष्टेर्विपरिलोपो विद्यतेऽविनाशित्वान्न तु तद्वितीयमस्ति ततोऽन्यद्विभक्तं यत्पश्येत्’ इति श्रुत्यामन्यादर्शने पश्यत एवादर्शनस्य हेतुत्वं पश्यन्वा इत्यादिना निरूप्य तत्रैव द्वितीयत्वाभावस्य हेतुत्वं नन्वित्यादिना निरूप्य तत्रैव विभागाभावस्य हेतुत्वं ततोऽ- न्यत्वाभावसार्थिकस्य हेतुत्वं निरूपितम् । अग्रे च यत्र वाऽन्यदिव स्यादित्यादिना वैलक्षण्यहेतुक- मन्यदर्शनमनूप यत्र त्वस्य सर्वमात्मैवाभूत्तत्केन कं पश्येदित्यादिना स्वस्य द्रष्टृत्वाविभागेनाविज्ञाने तं केन विजानीयादित्यनेन ज्ञानकरणाभावं हेतुत्वेन वक्तीत्यतो भेदप्रतीत्यभावरूप एवाभेदो न तु भेदा- त्यन्ताभावरूप इति । अत एव मङ्गलमाचेरुः ‘ब्रह्माभेदोपासनाज्ज्ञानतो वा ब्रह्मात्मैक्येप्यङ्गताम- त्यजन्तः । यस्यैश्वर्यादासते यन्नियम्यास्तं श्रीकृष्णं देवदेवं नमामि’ इति । अत्र किंचिद्विस्तृयते । ब्रह्माभेदोपासनं न भक्तिमार्गे ‘अन्तरा भूतग्रामवत्स्वात्मनः’ इत्यत्र भाष्ये तथोपपादनात् । कदाचित्तु जायते व्यतिहारसूत्रे तथोपपादनात् । ज्ञानमार्गे तावद्वर्तते तेनावरणभङ्गो भवति । ज्ञानमार्गस्तु माहात्म्यज्ञानेन भक्तिद्वारा भगवत्प्राप्तिः ‘भगवान्ब्रह्म कात्स्न्येन त्रिरन्वीक्ष्य मनीषया’ इति वाक्यात् । तदुक्तं सप्तमे ज्ञानविज्ञानयोगाध्याये ‘ज्ञानं तेऽहं सविज्ञानमिदं वक्ष्याम्यशेषतः