अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 1528, कुल 2600 में से
संदर्भ में पढ़ें३२२ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [अ० २ पा० ३ अ० १४ सू० ३९ भाष्यप्रकाशः । दर्शनं निषिध्य सर्वस्वात्मभावबोधनपूर्वकमन्यदर्शननिषेधात् सजातीयदर्शनपरत्वं वा, विज्ञातृ- विज्ञातृदर्शनपरत्वं वा । न तु द्रष्टृत्वादिनिषेधनपरत्वम्, पश्यत्त्वादीनां विनाशेनाविनाशित्व- रश्मिः। दिषु । नित्यं च समचित्तत्वमिष्टानिष्टोपपत्तिषु । मयि चानन्ययोगेन भक्तिरव्यभिचारिणी । विविक्त- देशसेवित्वमरतिर्जनसंसदि । अध्यात्मज्ञाननित्यत्वं तत्त्वज्ञानार्थदर्शनम् । एतज्ज्ञानमिति प्रोक्तमज्ञानं यदतोऽन्यथा' इति । अत्रापि तत्त्वज्ञानार्थदर्शने कृते सत्यभेदः । तथापि यथा सेव्य- सेवकभावस्तथोपपादितं भक्तिरत्नटीकायाम् । नन्वत्र मयि चेत्यत्रास्मत्पदेन क्षेत्रज्ञबोधात्कथं भक्तिः प्रभुपर्यवसायिनीति चेन्न । 'पुरुषत्वे च मां धीराः सांख्ययोगविशारदाः । आविस्तरां प्रपश्यन्ति सर्वशक्त्युपबृंहितम्' इति भगवद्वचनेनैक्यात् । पुनश्चतुर्दशे गुणत्रयविभागयोगाध्याये 'परं भूयः प्रवक्ष्यामि ज्ञानानां ज्ञानमुत्तमम्' इति प्रस्तुत्य 'मम योनिर्महद्ब्रह्म तस्मिन्गर्भं दधाम्यहम्' इत्यादिभिर्माहात्म्यं देवत्वरूपं भणितवान्भगवान् । ज्ञानस्य विजातीयसंवलितत्वे मार्गत्वं, केवलत्वे ब्रह्मधर्मत्वमित्येकादशस्कन्धसुबोधिन्यामस्ति । ननु माहात्म्यज्ञाने चतुर्दशोक्ते ब्रह्माभेदोपासना नास्ति । मम योनिरिति जीवसमूहाक्षरात्वषष्ठ्या भेदोक्तेः । अस्ति तु भावाद्वैतमतेन । तदुक्तं सप्तमस्कन्धे शिवमतेन 'कार्यकारणवस्त्वैक्यमर्पणं पटतन्तुवत्' इत्यादिना । तत्र परममुक्तौ यदि भेदो वर्तते तदा तत्प्रतीत्यभावः कथम् । यदि तत्रै¹ भेदात्यन्ताभावाभावः कथमिति प्रश्ने पर्यवसितिमात्रादतो नान्य इति निषेधबलात्फले परममुक्तौ भेदोऽवश्यं पर्युदासार्थकनञादिभिर्व- क्तव्यः । आदिना भेदार्थकनञादिभिः । उक्तञ्चास्थूलमनण्वित्यस्याः श्रुतेर्व्याख्याने विद्वन्मण्डनो- पन्यासायाः सुवर्णसूत्रे पर्युदासे नञ् । एवं च फले मायिकभेदमिश्रतद्भेदसदृश आधिकारि- कमण्डलस्थभेद इति लीलान्तरेच्छया भेदप्रतीत्यभावरूपो भेदो न भेदात्यन्ताभावरूपः 'अवि- भक्तं च भूतेषु विभक्तमिव च स्थितम्' इति ब्रह्मस्वरूपपरगीतायां विभक्तमिव कथनादित्यलं विमर्षाय । अतोन्तर्यामिब्राह्मणेन नियम्यानां इव शब्देनाविभागानुसंधानं न त्वविभागस्तस्य दशा- यामित्यर्थः । अभेदज्ञानफलं भक्तिः 'नृप त्वात्मैव वल्लभः' इति वाक्यादित्युपपादितमाकरे नृसिं- होत्तरतापनीयटीकायामप्येतैः । द्वितीयस्येत्यादि । द्वितीयस्य दृष्टिरूपदर्शनस्य विभक्तत्वेना- र्थात्प्रतिषिध्य । अयमर्थः । तत्रैवाग्रे 'यत्र वा अन्यदिव स्यात्तत्रान्योऽन्यत्पश्येदन्योऽन्यज्जिघ्रेत्' इत्या- दिना यत्र संसारिदशायां मायिकभेदेनान्यदिव ब्रह्मभावात्तत्रान्यो नेत्रादिरन्यद्विभक्तं पश्येदर्थादृष्टि- रूपं दर्शनं नान्यद्विभक्तं च तस्य द्वितीयस्य विभक्तत्वेनेत्यर्थः । सर्वस्येत्यादि 'यत्र त्वस्य सर्वमात्मैवाभूत्तत्केन कं पश्येत्तत्केन कं जिघ्रेत्' इत्यादीनान्यदर्शननिषेधात् । अन्यत्वं विजातीयत्वं तद्दर्शननिषेधात् । पश्यन्वा इति श्रुतेश्च यत्सिद्धं तदाहुः सजातीयेत्यादि । विजातीयत्वं च सत्त्व- मनीश्वरत्वं वेत्याशयेनाहुः विज्ञात्रित्यादि । विज्ञाता द्रष्टा²ऽविज्ञातृ दृष्टिरूपं दर्शनं करणम् । तज्ज्ञा- परानपेक्षया न जानातीत्यविज्ञातृ भवति । न तु द्रष्टृत्वादीत्यादि । तथा च द्रष्टृत्वादिनिषेध- परं शंकराचार्यभाष्यं विद्यावस्थायां ते एव कर्तृत्वभोक्तृत्वे निवारयन्ति स्म 'यत्र त्वस्य सर्वमात्मै- वाभूत्तत्केन कं पश्येत्' इति । अविनाशित्वेत्यादि । 'यद्वै तन्न पश्यति' इत्याद्याः श्रुतेः पूर्वं १. परममुक्तावपि । २. जीवः । 1418