अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 1534, कुल 2600 में से
संदर्भ में पढ़ें१२८ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [अ० २ पा० १ अ० १५ सू० ४२ वैयर्थ्यापत्तेः । अप्रामाणिकत्वं च । फलदाने कर्मापेक्षः । कर्मकारणे प्रयत्नापेक्षः । प्रयत्ने कामापेक्षः । कामे प्रवाहापेक्ष इति मर्यादारक्षार्थं वेदं चकार । ततो न भाष्यप्रकाशः। भगवानेव कारणमिति सर्वत्र तत्कारणत्वाय तदानीं प्रयत्नोत्तरकाले फलदातृत्वमभिव्यापिका या इच्छा आलोचनाकारान्तःपातिनी तामेव श्रुतिरनुवदति, 'उन्निनीषत्यथोनिनीषति' इति । अतो गुणदोषकथनपूर्वकं बालेच्छानुसारिसामग्रीसंपादके पितरि यथा न दोषः, किंतु बाल- स्वभावे, तथा ब्रह्मण्यपि न दोषः, किंतु जीव एवेत्यर्थः । ननूक्तदृष्टान्तन्यायेनैव कारयती- त्यत्र किं गमकमित्याकाङ्क्षायां सूत्रोक्तं, विहितप्रतिषिद्धावैयर्थ्यादिभ्य इति हेतुं विवृण्वन्ति अन्यथेत्यादि । यद्युक्तन्यायं विहाय केवलं जीवकृतकर्मापेक्षः कारयतीत्येवाङ्गीक्रियते तदा विहितप्रतिषिद्धयोर्यागादिब्राह्मणहननादिरूपयोः कर्मणोर्वैयर्थ्यं स्यात् । पूर्वपूर्वजीवकर्मानुसरणे ईश्वरस्य तदधीनतया तेषामेव प्राधान्याच्चात एव दुःखवदप्रार्थितस्य सुखस्यापि सिद्धेः । आदि- पदादप्रामाणिकत्वं च । इदं विहितमिदं निषिद्धमिति बोधकस्य प्रमाणव्यापारस्य वैयर्थ्यात् । अतो विहितप्रतिषिद्धावैयर्थ्यप्रमाणव्यापारवैयर्थ्याप्रामाणिकत्वात्तत्प्रमाणानुसारिभ्यो हेतुभ्य इदं ज्ञायते, यत् फलदाने कर्मापेक्ष इत्यादिमर्यादारक्षार्थं तज्ज्ञापकं स्वनिःश्वासरूपं वेदं प्रकटीचकार, यथा लोके राज्यमर्यादारक्षकं नीतिशास्त्रम् । ततो, 'लोकवत्तु लीलाकैवल्यम्' रश्मिः। यथाबालमित्यादि भङ्गीत्यर्थः । एवमिति कारणेषु स्वेन पञ्चकत्वे संपादने कृते सति । एवेति 'सदेव सोम्येदमग्र आसीत्' इति श्रुतावेवकार इत्येवकारः । तदानीमित्यस्य विवरणं प्रय- त्नेति । फलदातृत्वे या इच्छा तामनुवदतीत्यत्र भाष्येऽभिव्यापकाधारे सप्तमीत्याशयेनाहुः फलेति । आलोचनाकारः 'बहुस्यां प्रजायेय' इत्यत्र बहुस्यामिति सोन्तःपाती यस्याः सा आलोचनाकारान्तः- पातिनी उक्तेच्छा । सर्वेत्यादि भाष्यप्रयोजनमाहुः अत इति । न दोष इति । ननु बालदोषः पितुः स्मर्यतेऽतः कथं न दोष इति चेन्न नात्र बालः स्तनन्धयोऽपितु पूर्वव्यतिरिक्त इति न दोषः । एवेति मुण्डके 'सर्व एव आत्मानो व्युच्चरन्ति' इति आम्नानाज्जीवस्यांशत्वाद्यथा लोकशरीरांशे दोषो न त्वंशिनि शरीरे तथेत्येवकारः । एवेति एवकारः कर्माधीनेश्वरं व्यवच्छिनत्ति । तत इति पूर्वजीवकर्मभ्यः । एवेति गौणमुख्यन्यायात् । दुःखेति । तदुक्तं श्रीभागवते 'तस्यैव हेतोः प्रयतेत कोविदो न लभ्यते यद्भ्रमतामुपर्यधः । यल्लभ्यते दुःखवदन्यतः सुखं कालेन सर्वत्र गभीररंहसा' इति । अप्रामाणिकत्वमितिभाष्यं विवृण्वन्ति स्म आदीति सूत्रीयादिपदात् । पदशब्दप्रयोगः समासावयवसुपोर्लुका . लुप्तत्वे पदत्वाभावेऽपि शब्दे पदत्वारोपात् व्यपेक्षाव्यञ्जन- सामर्थ्ये । अप्रामाणिकत्वमिति भाष्ये प्रमाणेन प्राप्यत इति प्रामाणिकं विहितं प्रतिषिद्धं च कर्म । शैषिकः प्रत्ययः, न प्रामाणिकमप्रामाणिकम् नञ्तत्पुरुषः । तस्य भावोऽप्रामाणिकत्व- मित्याशयेनाहुः इदमित्यादि । इति बोधकस्येति । इत्येवंप्रकारेण विहितप्रतिषिद्धस्वप्र- कारको यो बोधः प्रमा तत्कर्तुः प्रमाणस्येति वक्तव्ये बोधयतीत्यत्र व्यापारनिष्ठव्यापारविवक्षया प्रमाणव्यापारस्येत्युक्तम् । व्यापारेण व्यापारिणो नान्यथासिद्धत्वमिति नाङ्गीकृतम् । अन्यथानुप- पत्त्यात् । हेतुभ्य इति त्रिभ्य इत्यर्थः । फलेति । फलदाने कर्मापेक्ष इत्यादिर्या मर्यादेत्यादिः । अत्र प्रवहणं प्रवाहः सर्गपरंपराया अविच्छेदः । तज्ज्ञापकं मर्यादाज्ञापकम् । नीतीति तथा 1424