अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 1535, कुल 2600 में से
संदर्भ में पढ़ेंभाष्यप्रकाश-रश्मि-परिवृंहितम् । १२९ ब्रह्मणि दोषगन्धोऽपि । नचानीश्वरत्वम् । मर्यादामार्गस्य तथैव निर्माणात् यन्नान्यथा स पुष्टिमध्य इति ॥ ४२ ॥ इति द्वितीयाध्याये तृतीयपादे परात्तु तच्छ्रुतेरिति पञ्चदशमधिकरणम् ॥ १५ ॥ भाष्यप्रकाशः। इति न्यायेन जीवकृतप्रयत्नानुसरणान्न ब्रह्मणि वैषम्यादिदोषगन्धः। नाप्यनीश्वरत्वम् । मर्यादामार्गस्य तादृशापेक्षावैशिष्ट्यपूर्वकत्वेन स्वयमेव निर्माणादिति । नन्वयमपि न नियमः । 'अह्यापूतम्' इति, 'ते नाधीतश्रुतिगणाः' इत्यादिवाक्येषु तदनपेक्ष्यैव गोकुलेभ्यः फलदानकथनाच्छ्रुतावपि, 'सुहृदः पुण्यकृत्यां द्विषन्तः पापकृत्याम्' इति कथनादित्यत आहुः यत्रेत्यादि । तथाचेदमपि लोकवत्तु लीलेति न्यायादेव समाहितम् । लोके राज्ञामपि कृपापात्रेषु तथा दर्शनादिति । विद्वन्मण्डने तु, 'स वै नैव रेमे' इति श्रुत्यनुसारेण, यती प्रयत्न इतिधात्वर्थमादाय भगवत्कृतो यः क्रीडार्थमुद्यमः सोऽत्र प्रयत्नशब्दे गृहीतः । सिद्धान्तस्तूभयत्राप्येक एव । तेना- त्रेदं सिद्धम्, फलदाने भगवान् जीवकृतप्रयत्नापेक्षोऽपि न स्वातन्त्र्याद्धीयते । तथैवालोचितत्वात्, आलोचनानुसारेण विविधं फलं जीवेभ्यो दददपि, न वैषम्यादिदोषभाग् भवति, सर्वरूपत्वात् । कर्मणामप्यनादित्वं भगवद्धर्मत्वात् । कचिन्मर्यादां भिनत्त्यपि, स्वतन्त्रत्वात् । तथोक्तं द्वितीय- स्कन्धसुबोधिन्याम् यत्किञ्चिद् दूषणं तत्र दूष्यं चापि हरिः स्वयम् । विरुद्धपक्षाः सर्वेऽपि सर्वमत्रैव शोभते ॥ ४२ ॥ इति इति पञ्चदशं परात्तु तच्छ्रुतेरित्यधिकरणम् ॥ १५ ॥ रश्मिः। बृहत्त्वादिति श्रुतिरूपम् । इयं वक्ष्यमाणप्रणाली । तत इति भाष्यं विवृण्वन्ति स्म तत इति । नचेति भाष्यविवरणं नापीति । मर्यादेति भाष्यविवरणं मर्यादेति । भाष्यभाव्यश्रुतिमाहुः श्रुताविति 'तस्य पुत्रा दायमुपयन्ति सुहृदः पुण्यकृत्याम्'इत्यादिः । अस्याः पुष्टिमार्गीयत्वं तु भगव- दनुगृहीतस्य पुण्यकृत्यायाः भोगाभावेऽपि सुहृद्गामित्वं पापकृत्याया भोगाभावेऽपि द्विषद्गामि- त्वमितरेषां त्वेतयोर्भोगादेव क्षय इति न भोगाभावे मोक्षः । तथेति । इष्टदेशप्रापण- प्रकारदर्शनादिति मतं हेतुमाहुः विद्वन्मण्डन इति । गृहीत इति । तेन सुबोधिन्यनुसारि- प्रयत्नः न तु वेदव्यासमतवर्तिब्रह्ममतप्रयत्न इति न मतभेदोप्यस्ति । सिद्धान्त इति वैषम्य- नैर्घृण्यदोषपरिहाररूपः । यत्रेति भाष्यतात्पर्यमाहुः कचिदिति । पुष्टिप्रसङ्गात्किंचिदाहुः यत्किंचि- दिति । अत्रेति अत्रत्यः पुष्टिमार्ग इत्यर्थः । स्वयमिति तदात्मानमिति श्रुतेः । एवकारस्तु 'तदात्मान५ स्वयमकुरुत'इति श्रुतेः पुष्टिमात्रविषयत्वात् ॥ ४२ ॥ इति चतुर्दशं परात्तु तच्छ्रुतेरित्यधिकरणम् ॥ १४ ॥ १. रश्मिकारमते चतुर्दशमधिकरणम् । १७ ब्र० सू० २० 1425