अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 1536, कुल 2600 में से
संदर्भ में पढ़ें३६० श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [अ० २ पा० ३ अ० १६ सू० ४३ अंशो नानाव्यपदेशादन्यथा चापि दाशकितवा- दित्वमधीयत एके ॥ ४३ ॥ (२-३-१६) जीवस्य ब्रह्मसंबन्धिरूपमुच्यते । जीवो नाम ब्रह्मणोंऽशः । कुतः । नाना- व्यपदेशात् । 'सर्वे एवात्मानो व्युच्चरन्ति कपूयचरणा रमणीयचरणाः' इति च । ननु ब्रह्मणो निरवयवत्वात् कथं जीवस्यांशत्वमिति वाच्यम् । न हि ब्रह्म निरंशं सांशमिति वा क्वचिल्लोके सिद्धम् । वेदैकसमधिगम्यत्वात् । सा च भाष्यप्रकाशः। अंशो नानाव्यपदेशादन्यथा चापि दाशकितवादित्वमधीयत एके ॥ ४३ ॥ अधिकरणमवतारयन्ति जीवस्येत्यादि । स्वसंबन्धि तु, 'ज्ञोऽत एव' इति सूत्रे ज्ञानरूपत्वबोधना- दुक्तम् । इदानीं 'यो यदंशः स तं भजेत्' इति भजनयोग्यत्वं वक्तुं मतान्तरवद् अन्यत्वं परिहर्तुं मुक्तिदशायां ब्रह्मत्वव्यपदेशस्य मुख्यवृत्तत्वे हेतुं बोधयितुं ब्रह्मानेकत्वं च परिहर्तुं ब्रह्मसंबन्धि- रूपकथनार्थमिदमारभ्यत इत्यर्थः । सूत्रं विवृण्वन्ति जीवो नामेत्यादि । नानाव्यपदेशादिति नानात्वेन व्यपदेशो नानाव्यपदेशस्तस्मात्, श्रुतौ बहुत्वसंख्याविशिष्टत्वेन कथनाद् ब्रह्मणः सकाशाद् विस्फुलिङ्गवद् विभागकथनाच्चेत्यर्थः । विद्वन्मण्डने तु नानाविधो व्यपदेशो नानाव्यपदेशः, क्वचिद् ब्रह्मत्वेन, क्वचिद्भक्त- त्वेन, क्वचिदंशत्वेन, क्वचिच्चिद्रूपत्वेन, क्वचिदीक्षितव्यत्वेन, क्वचिदणुत्वेन, क्वचिद् व्यापकत्वेने- त्येवंरूपः । 'अयमात्मा ब्रह्म सर्वानुभूः', 'सर्व एवात्मानो व्युच्चरन्ति', 'ज्ञाज्ञौ द्वावजावीशानीशौ', 'विज्ञानघन एवैतेभ्यो भूतेभ्यः समुत्थाय', 'क्षरात्मानावीशते देव एकः', 'एषोऽणुरात्मा चेतसा वेदितव्यः', 'तज्जीवो नभोपमः' इत्यादिषु । तस्माद् ब्रह्मणोंऽश एव जीवः, न ह्येवं विरुद्धधर्मा- श्रयत्वं कार्यस्य संभवतीत्यपि व्याख्यातम् । अत्रैकदेशिभिर्दर्शनान्तराभिमानिभिश्च कृतामाशङ्कामनूद्य निषेधन्ति ननु ब्रह्मण इत्यादि । रश्मिः। अंशो नानाव्यपदेशादन्यथा चापि दाशकितवादित्वमधीयत एके ॥ ४३ ॥ अवेति एककार्यत्वसंगत्यावतारयन्तीत्यर्थः । तामेवाहुः स्वेति । किमन्यजीवसंबन्धिरूपमिति जिज्ञा- सयाधिकरणावतरणात् । ज्ञोऽत इति । अन्याधिकरणानामेतन्मूलत्वाद्व्यवहितमधिकरणं परित्यज्ये- तदुपात्तम् । स्वं जीवः जीवत्वविशिष्टः विशिष्टे शक्तं जीवपदं तत्संबन्धः समवाय