अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 1540, कुल 2600 में से
संदर्भ में पढ़ें११४ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [अ०२ पा०३ अ०१६ सू० ४४-४६ मन्त्रवर्णात् ॥ ४४ ॥ 'पुरुष एवेदꣳ सर्वम्' इत्युक्त्वा, 'पादोऽस्य विश्वाभूतानि' इति भूतानां जीवानां पादत्वं, पादेषु स्थितत्वेन वा अंशत्वमिति ॥ ४४ ॥ अपि स्मर्यते ॥ ४५ ॥ वेदे खतन्त्रतया उपपाद्य वेदान्तरेऽपि तस्यार्थस्यानुसरणम्, 'ममैवांशो जीवलोके जीवभूतः सनातनः' इति ॥ ४५ ॥ प्रकाशादिवन्नैवं परः ॥ ४६ ॥ जीवस्यांशत्वे हस्तादिवत् तद्दुःखेन परस्यापि दुःखित्वं स्यादिति चेन्न । एवं परो न भवति । एवमिति प्रकारभेदः । क्लिष्टत्वेनाऽनुभव इति यावत् । भाष्यप्रकाशः। मन्त्रवर्णात् ॥ ४४ ॥ श्रुत्यन्तरसंमतिं दर्शयितुं हेत्वन्तरं वदतीत्याशयं स्फुटीकुर्वन्ति पुरुष एवेत्यादि । पुरुषसूक्तव्याख्यानाऽध्याये, 'पादेषु सर्वभूतानि पुंसः स्थितिपदो विदुः' इति व्याख्यानात् पक्षान्तरमाहुः पादेष्वित्यादि ॥ ४४ ॥ अपि स्मर्यते ॥ ४५ ॥ अर्थस्तु स्फुटः ॥ ४५ ॥ प्रकाशादिवन्नैवं परः ॥ ४६ ॥ एवं त्रिभिर्जीवांशत्वं निर्दोषेऽंशत्वे प्राप्तान् दोषान् परिहरतीत्याशयेन सूत्रं व्याकुर्वन्ति जीवस्येत्यादि । अंशत्वे हस्तादिवदिति । हस्तादि- वदंशत्व इत्यन्वयः । परिहारं व्याकुर्वन्ति । एवं पर इत्यादि । अत्र, नैवं पर इति निषेधेन प्रकारभेदो बोध्यते, तेन तद्धेतुभूतः प्रकारोऽपि भेदकत्वेन सूच्यते, तथाच यस्मात् परो जीव- वन्न तस्माज्जीववद् दुःखी नेति । तथा सत्येवमिति जीवनिष्ठः प्रकारभेद उच्यते । स च दुःखे क्लिष्टत्वेनानुभवरूपः । स तु परस्य नास्ति, किंतु प्रियत्वेनानुभवरूपः । अतः परोऽन्यथा । रश्मिः। मन्त्रवर्णात् ॥ ४४ ॥ पादत्वमंशत्वमिति श्रुत्यन्तरेत्यादिः । पुरुष एवेत्यादीति । इदं परिदृश्यमानं जगत् अस्य पुंसः पादो विश्वानि भूतानीत्यर्थः । पुरुषेति श्रीभागवते द्वितीयस्कन्ध इत्यादिर्बोध्यः । पादेष्विति । अत्र विशेषो ज्योतिश्चरणाधिकरणे विवृतः । पक्षेति पादाधिकरणपक्षमाहुः ॥ ४४ ॥ अपि स्मर्यते ॥ ४५ ॥ स्फुट इति । भाष्ये वेदान्तर इति इतिहास इत्यर्थः । 'इतिहासपुराणं वेदानां पञ्चमो वेदः' इति श्रुतेरित्येवं स्फुट इत्यर्थः ॥ ४५ ॥ प्रकाशादिवन्नैवं परः ॥ ४६ ॥ ननु भाष्य एव परो नेति परे नकारान्वयो भातीत्येवमिति । प्रकारभेद इति भाष्यं कथमित्याकाङ्क्षायामाहुः अत्र नैवं पर इति । नकारार्थो भेदः एवमर्थप्रकारस्तस्य प्रकारस्य प्रतियोगितासंबन्धेन नकारार्थेऽभेदेऽन्वयः । एवं प्रकार- भेदस्तदाहुः प्रकारेति । तद्धेतुरिति नकारार्थभूताभावहेतुभूतः । अभावज्ञानस्य प्रतियोगि- ज्ञानाधीनत्वात् । भेदकत्वेन ब्रह्मणः सकाशाद्भेदकत्वेन । एवमितीति व्याख्येयम् । एवमिति जीवनिष्ठः प्रकारस्तस्य भेद इत्येकदेशान्वयः चैत्रस्य गुरुकुलमितिवत् । नकारार्थस्य प्रकारप्रति- योगित्वं भाष्ये तु परप्रतियोगित्वं नकारार्थस्येत्याशङ्कापास्ता । नैवं पर इत्यन्वयाङ्गीकारात् । स चेति प्रकारभेदः । क्लिष्टत्वेनेति प्रतिकुलवेदनीयत्वेन । भेदेन सहानुभवाभेदान्वयासंभवाद्राद्धान्तम् । 1430