अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 1541, कुल 2600 में से
संदर्भ में पढ़ेंभाष्यप्रकाश-रश्मि-परिवृंहितम् । १३५ अन्यथा, सर्वरूपत्वात् । कुत एवं तत्राह । प्रकाशादिवत् । 'नाग्नेर्हि तापो न हिमस्य तत् स्यात्' इति । प्रकाशग्रहणं धर्मत्वद्योतनाय । दुःखाद्योऽपि ब्रह्मधर्मा इति । अतो द्वैतबुद्ध्या अंशस्यैव दुःखित्वं, न परस्य । अथवा प्रकाशः प्रकाश्य- दोषेण यथा न दुष्टः । रूपस्यापि तदंशत्वादिति ॥ ४६ ॥ भाष्यप्रकाशः । तत्र हेतुः सर्वरूपत्वादिति । तथाच पूर्वसूत्रे यथा दाशकितवादिरूपस्तथात्र दुःखरूपोऽपि, अतो दुःखे दुःखत्वेन भानरहितत्वात् परो नैवमित्यर्थः । न हि स्वस्म स्वस्मिन्नप्रियत्वं भासते । ननु कुत एवमवगम्यते, तत्राह प्रकाशादिवदिति । यथा प्रकाशशैत्यादयो धर्मा नाग्निहिमा- दीनां दुःखदिट्त्वबुद्धिजनकास्तथा दुःखमपि परस्य न दुःखजनकं, न वा द्विष्टत्वानुभव- जनकमित्यर्थः । वाक्यं तु एकादशस्कन्धे भिक्षुगीतायाम्, 'कालस्तु हेतुः सुखदुःखयोश्चेत् किमात्मनस्तत्र तदात्मकोऽसौ । नाग्नेर्हि तापो न हिमस्य तत् स्यात् क्रुध्येत कस्मै न परस्य द्वन्द्वम्' इति अत्र परस्येतिपदंक्षांशिन इत्यर्थो बोध्यः । दुःखादीनां ब्रह्मधर्मत्वमानन्दतिरोभाव- रूपत्वात् । 'आविर्भावतिरोभावौ शक्ती वै मुरवैरिणः' इति वाक्येन तिरोभावस्य भगवद्धर्म- त्वादिति । ननु तर्ह्यग्न्यादिवदिति कुतो नोक्तं तत्राहुः प्रकाशेत्यादि । तथाचाग्न्यादि- वदित्युक्ते सामर्थ्यविशेषादेव प्रकारभेदो बुध्येत, न तु धर्मधर्मिभावात्, अतस्तद्बोधनार्थं तथा नोक्तमित्यर्थः । एतस्य पक्षस्य दुरुहत्वेन क्लिष्टत्वात् पक्षान्तरमाहुः अथवेत्यादि । रूपस्य प्रकाशांशत्वं तु, 'सूर्यचक्षुस्तथा रूपं ज्योतिषो न पृथग् भवेत्' इति द्वादशस्कन्धे उक्तम्, तथाच सौरः प्रकाशो रूपप्रकाशकः प्रकाश्यं रूपमपि तदंशस्तथापि तद्दोषेण यथा प्रकाशस्य न दुष्टत्वं तथा जीवस्वाभिमानादिदोषग्रासेऽपि न परस्य तद्दोषवत्त्वमित्यर्थः । क्वचित् पापस्यापि तदंश- त्वादिति पाठः । तदा त्वादिपदेन सूत्रे पापं ग्राह्यम् । तथाच 'धर्मः स्तनोट्धर्मपथश्च पृष्ठः' इति वाक्यात् पापं विराजोऽङ्गः । तस्माद् यथा विराजो न दुःखं तद्वदित्यर्थो वाच्यः ॥ ४६ ॥ रश्मिः । द्विष्टत्वेन योऽनुभवो द्विष्टज्ञानं तेन रूप्यते व्यवह्रियते उक्तज्ञानविषय इत्यभेदान्वयः । यद्वा प्रकारभेदः प्रकारविशेषः । 'भेदो द्वैधे विशेषे स्यात्' इति विश्वात् । भेदोऽभाव इति नैयायिकाः । तेनानु- भवेनाभेदान्वयः सुष्ठु भाष्ये संगच्छते । यद्वा तद्धेतुभूत इत्यस्य प्रकाशशस्य प्रकारविशेषहेतुभूतः प्रकारः, सामान्यप्रकार इत्यर्थः । भेदकत्वेनेत्यस्य विशेषकत्वेनेत्यर्थः । भिदिर् विदारणे । यत्किंचिदज्ञानवि- दारणेषु विशेषक इति यावत् । 'विशेषकः स्यात्तिलके विशेषावाहकेपि च' इति विश्वः । अन्यथेत्यादि भाष्यं विवरीतुमाहुः स त्विति । अन्यथेति भाष्यं व्याकुर्वन्ति स्म अत इति । अन्यथेति । इदं भाष्यं । प्रियत्वेन द्विष्टानुभवः प्रकारः परस्य सर्वसमत्वात् न द्विष्टत्वेन द्विष्टानुभवः । ईश्वरे द्विष्टानुभावस्तु नास्ति । 'ऋतं तपः सत्यं तपः' इति श्रुतेः । द्वितीयस्कन्धनवमाध्याये तप संताप इत्यस्य ग्रहणात् । अत इति समत्वात्सर्वरूपत्वाद्वा इति । कुत इत्यादि भाष्यं विवृण्वन्ति स्म ननु कुत इति । प्रकाशेति आदिशब्देन विषम् । अग्निहिमेति आदिना सर्पः । दुःखेति दुःखे द्विष्टत्वबुद्धे- र्जनकाः । इत्यर्थ इति अर्थः श्रीधर्यां स्फुटः । सामर्थ्येति क्षमावमिह सामर्थ्य वदन्ति । धर्मेति तद्वृत्तित्वं धर्मत्वम् । अत इति दधिदुग्धवद्रूपघटवच्चेति दृष्टान्तसत्त्वाच्च । पापस्येति पाठः । रूपस्येति पठित्वा व्याचख्युः रूपस्येति । विराजोंशा इति परंपरया बोध्यः पृष्ठांशत्वात् ॥ ४६ ॥ 1431