अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 1542, कुल 2600 में से
संदर्भ में पढ़ें१३६ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ०२ पा०३ अ०१६ सू०४७-४८ स्मरन्ति च ॥ ४७ ॥ स्मरन्ति च सर्वेऽपि ऋषयोऽशिनो दुःखसंबंधं स्मरन्ति । 'तत्र यः परमात्मा हि स नित्यो निर्गुणः स्मृतः । न लिप्यते फलैश्चापि पद्मपत्रमिवांभसा' ॥ इति । 'कर्मात्मा त्वपरो योऽसौ मोक्षबन्धैः स युज्यते' । 'एकस्तथा सर्वभूतान्तरात्मा न लिप्यते लोकदुःखेन बाह्यः'। चकारात्, 'तयोरन्यः पिप्पलं स्वाद्वत्त्यनश्नन्नन्यो अभिचाकशीति' ॥ ४७ ॥ अनुज्ञापरिहारौ देहसंबन्धाज्ज्योतिरादिवत् ॥ ४८ ॥ ननु जीवस्य भगवदंशत्वे विधिविषयत्वाभावात् कर्मसंबन्धाभावेन कथं भाष्यप्रकाशः। स्मरन्ति च ॥ ४७ ॥ स्मरन्ति च ऋषय इति ग्रहणकमग्रे व्याख्यानम् । निर्गुण इति प्राकृतसंसर्गशून्यः । एकस्तथेति श्रुतिस्तु कठवल्लीस्था । एतत्पूर्वार्द्धं तु, 'सूर्यो यथा सर्वलोकस्य चक्षुर्न लिप्यते चाक्षुषैर्बाह्यदोषैः' इति । द्वितीया श्वेताश्वतरस्था । एतत्पूर्वार्द्धं 'द्वा सुपर्णा' इत्यादि । तया विरुद्धधर्मवत्त्वं भेदश्च जीवपरमात्मनोः सिध्यति । एवं सूत्रद्वयेन एको दोषः परिहृतः । पूर्वश्रुतौ चाक्षुषैरित्यस्य तच्चक्षुःसंबन्धिमिस्तिमिरादिभिरित्यर्थः ॥ ४७ ॥ अनुज्ञापरिहारौ देहसंबन्धाज्ज्योतिरादिवत् ॥ ४८ ॥ पुनर्दाेषान्तरमाशङ्क्य परिहरतीत्याहुः नन्वित्यादि । अयमर्थः । 'कर्ता शास्त्रार्थवत्त्वात्' इत्यत्र ब्रह्मण आप्तकामत्येन फलानुपयोगाज्जडस्य च ज्ञानाभावेन कर्मकरणाशक्यत्वाद् विधिनिषेधशास्त्रमनर्थकं स्यादिति, तत्परिहारार्थं जीवस्य विधिनिषेधविषयतया कर्तृत्वमङ्गीकृतम् । अंशत्वे तद्विरुध्यते । भगवत इव जीवस्यापि तथात्वस्याऽवश्यवक्तव्यत्वेन कथं फलसंबन्धः । तथाच विधिनिषेधवैयर्थ्य- रश्मिः। स्मरन्ति च ॥ ४७ ॥ ग्रहणकमिति वार्तिकमेवेदं भाष्यप्रकाशम् । घञन्तं पुंसी- त्यस्य लौकिकत्वात् सूत्रापेक्षितं ग्रहणयतीति ग्रहणकं सूत्रशेषमिति यावत् । अग्र इति । ननु द्वेर्विवरणमुपपद्यत इति तत्कुतो न व्याख्यानमिति चेत्तत्सत्यम् । व्याख्यानतो विशेषप्रतिपत्तिर्नहि संदे- हादल्ल