अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 1543, कुल 2600 में से
संदर्भ में पढ़ेंभाष्यप्रकाश-रश्मि-परिवृंहितम् । १३७ फलसंबन्धः । जीवस्य च पुनरनेकदेहसंबन्धात् कः शूद्रः, का भार्येति ज्ञानमप्य- शक्यमतः कर्ममार्गस्य व्याकुलत्वात् कथं जीवस्यापि दुःखित्वमित्याशङ्क्य परिहरति । अनुज्ञापरिहारौ विधिनिषेधौ, जीवस्य देहसंबन्धाद् यो देहो यदा गृहीतस्तत्कृतौ । यथा शवाग्निश्चण्डालभाण्डस्थमुदकं तद्घटादिश्च परिह्रियते । एवमुत्कृष्टं परिगृह्यते । तथा जीवेऽपि देहसंबन्धकृतः । संबन्धश्चाध्यासिको भगवत्कृतश्च । आध्यासिको हि ज्ञानान्निवर्तते । द्वितीयो भगवतैव । जीव- न्मुक्तानामपि व्यवहारदर्शनात् । श्रुतिस्तु भगवत्कृतसंबन्धमेवाश्रित्याग्नि- होत्रादिकं विधत्ते । अन्यथा विद्यां स्वज्ञानं च बोधयन्ती कर्माणि न विदध्यात् । भाष्यप्रकाशः । तादवस्थ्यात् तत्सूत्रव्याघातः । किंच । शास्त्रस्य जीवाधिकारकत्वाज्जीवस्य चानेकदेहसंबन्धात् को जीवः शूद्रः, का भार्येति ज्ञानमप्यशक्यम् । तदज्ञाने, 'ऋतौ भार्यामुपेयात्', 'न शूद्राय मतिं दद्यात्' इत्याद्यनुज्ञापरिहारविषयज्ञानाभावः । अतः कर्ममार्गस्य व्याकुलत्वाद् विहित- निषिद्धान्व्यवस्थायां कथं जीवस्यापि निषिद्धफलभूतं दुःखित्वमिति द्वयमाशङ्क्य परिहरतीति । परिहारं व्याकुर्वन्ति अनुज्ञेत्यादि । सत्यं, जीवस्य यद्यपि भगवदंशत्वान्न स्वरूपतो विधिनिषेधविषयत्वं, तथापि तत्तद्देहसंबन्धकृतमागन्तुकं तद् भवत्येव, यथाम्ब्वग्निपृथिवीनां स्वतो विध्याद्यविषयत्वेऽपि शवादिसंबन्धान्निषेधविषयत्वं, श्रोत्रियादिसंबन्धाच्च विधि- विषयत्वं, तद्वदस्यापि देहसंबन्धाज्जाते तस्मिंस्तत एव तत्फलसंबन्धस्यापि सौकर्येण तयोरपि सार्थक्ये सति न शास्त्रार्थवत्त्वसूत्रव्याहतिर्न वा कर्ममार्गव्याकुलता येन दुःखित्वाद्यनुपपत्ति- रित्यर्थः । ननु देहसंबन्धेन विधिविषयत्वे देहसंबन्धस्याज्ञानकृतत्वाच्छास्त्रस्याप्यज्ञाधिकार- कत्वं सिद्ध्यति, अज्ञानं च बुद्धयुपाधिकस्यैव, न तु स्वत इति, शास्त्रार्थवत्त्वसूत्रव्याहतिर्न परिहृता भवतीत्याशङ्कायामाहुः संबन्धश्चेत्यादि । स्वज्ञानमिति 'साङ्गो वेदोऽध्येयो ज्ञेयश्च' रश्मिः । संबन्धाभावस्य । स्वस्येति लोकाश्रयणात् । तथेत्येतावत्तैव चारितार्थ्यात् । तत्सूत्रेति कर्ता शास्त्रेति सूत्रस्य व्याघातः । जीवस्येतिभाष्यं हेतुपूर्वकं विवृण्वन्ति स्म किं चेत्यादि । द्वयमिति जीवस्य दुःखित्वमपिना भगवतो दुःखित्वं चेति द्वयम् । श्रोत्रियेति श्रोत्रियश्छन्दोऽधीते यः सः । तस्मिन्निति विधिविषयत्वे । बुद्धीति जीवो विशेष्यम् । निरुपाधिकव्यवच्छेदक एवकारः । न परीति । बुद्धौ कर्तृत्वस्य पर्यवसानाज्जीवे चापर्यवसानाच्छास्त्रार्थवत्त्वस्य बुद्धयवसितत्वेन न परिहृता भवतीत्यर्थः । संबन्धश्चेत्यादीति जीवन्मुक्तानामपि दे