अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 1544, कुल 2600 में से
संदर्भ में पढ़ें१३८ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [अ० २ पा० ३ अ० ११ सू० ४८ शाब्दज्ञानस्य पूर्वमेव सिद्धत्वात् । कथं सिद्धवद् यावज्जीवं विदध्यात् । न्यासोऽपि देहसंबन्ध एव ॥ ४८ ॥ भाष्यप्रकाशः। इत्यादिभिः सार्थज्ञानम् । पूर्वमेव सिद्धत्वादिति अध्यापनाध्ययनविधिभ्यां कृतेऽध्ययने तत्काल एव सिद्धत्वात् । तथाच कामाधिकारको विधिर्विश्वासोपजननायोऽज्ञाधिकारको भवतु नाम, यावज्जीवादिरूपो नित्यविधिस्तु नाज्ञाधिकारकः, अतो न शास्त्रार्थव्यवस्थाघात इत्यर्थः । ननु यावज्जीवविधिश्चेज्ज्ञानिपरस्तदा, 'यदहरेव विरजेत्तदहरेव प्रव्रजेत्' इत्यादिसंन्यासविधि- वैयर्थ्यम् । अतो नेयं व्यवस्था युक्तेत्यत आहुः न्यासोऽपीत्यादि । तथाच जरामर्याग्निहोत्रस्य तत्रापि संभवान्न वैयर्थ्यम् । ये पुनर्ब्रह्मभूता आदितः साधनसंपत्त्या वा देहसंबन्धं नानुसंदधते, 'दैवादुपेतमुत दैववशादपेतम्' इति न्यायेन देहं धारयन्ति पूर्णा एव ज्ञानिनस्तेषां तु शुकादिवत् स्वत एव तत्र तत्र प्रवृत्तेर्न विधिनियम्यत्वम् । अत एव, 'यं प्रव्रजन्तमनुपेतमपेतकृत्यम्' इति, 'पञ्चषष्ठायनार्भाभाः' इति, 'स्वैरं चरन्ति मुनयोऽपि न नह्यमानाः' इति 'योगेश्वरस्य भवतो नाऽऽज्ञायोऽपि नियामकः' इत्यादीनि वाक्यानि, दत्तात्रेयस्य च मार्कण्डेयपुराणे स्वैराचरण- मिति सर्वं संगच्छते । अतो, न कोऽपि दोष इत्यर्थः ॥ ४८ ॥ रश्मिः। भगवत्कृतसंबन्धवतां कर्माकरणे । स्वार्थेति । स्वज्ञानमिति भाष्ये स्वशब्द आत्मीयवाचक इति भावः । भाष्ये जीवन्मुक्तानां शाब्दज्ञानेनाध्यासनिवृत्त्या श्रुतिः कर्माणि बोधयिष्यतीत्याशङ्कायामाहुः शाब्देति । प्रकृते । तत्काल इति अष्टादिनाऽध्ययनाध्यापनकाले । तदुक्तं परस्पराभिनन्दने- नार्थः स्फुरतीति । एवेति 'अथ यदि ते कर्मविचिकित्सा वा वृत्तविचिकित्सा वा स्यात् ये तत्र ब्राह्मणाः संमर्शिनः युक्ता आयुक्ताः अलूक्षा धर्मकामाः स्युर्यथा ते तत्र वर्तेरन् तथा तत्र वर्तेथाः' इति श्रुतेरेवकारः । 'अलौकिको हि वेदार्थः' इति श्रुतेर्विमर्शिनः परमात्मप्रसादवन्तः । 'किमलभ्यं भगवति प्रसन्ने श्रीनिकेतने' इति वाक्यात् विमर्शनार्थज्ञानमिति । भाष्ये कथ- मित्यादि । उक्तहेतोर्निवृत्ताविद्याकर्मणां कथं श्रुतिस्त्वित्याद्युक्तप्रकारातिरिक्तप्रकारेण सिद्धवदित्यादिः । निवृत्ताविद्याकर्मणां साध्याविद्याकर्मप्रसाधनं विना यावज्जीवमग्निहोत्रं जुहुयादिति विरुद्धं याव- ज्जीवं कर्म विदध्यादित्यर्थः । अग्निहोत्रं जुहोतीत्यनयाग्निहोत्रविधानेन यावज्जीवमग्निहोत्रं जुहुयादिति नापूर्वविधिरपि तु गुणविधिर्यावज्जीवत्वविधिः दध्ना जुहोतीतिवत् । अतः श्रुतिस्तु भगवत्कृत- संबन्धमित्यादिः । तथा चेति कर्मणां विधाधीनत्वेत्यर्थः । कामेत्यादि । प्रवृत्तं च निवृत्तं च तत्र पूर्वं प्रवृत्तम् 'फलश्रुतिरियं नृणां न श्रेयो रोचनं परम्' इति वाक्यात् । तमाहुः विश्वा- सेति । ज्ञानिपर इति ज्ञानिकर्मपरः । अत्र देहसंबन्धो भगवत्कृतो ग्राह्यः । अपिनाग्निहो- त्रादिरिति व्यवसोपपन्नेत्याहुः तथा चेति । जरामर्याग्निहोत्रं महानारायणोपनिषदन्ते 'तस्यैवं विदुषो यज्ञस्यात्मा यजमानः' इत्युपक्रम्य 'एतद्वै जरामर्यमग्निहोत्र ५ सत्रम्' इति श्रुतेः । तत्रापीति संन्यासेपि । संभवात् अयमर्थः । महानारायणोपनिषद्स्यात्मसूत्रात्पूर्वं 'वसुंरण्वोविभूरसि' इति संन्यास- प्रकरणस्थश्रुतिपर्यालोचनया संभवात् । श्रुतेः संन्यासप्रकरणस्थत्वं तु द्वितीयस्कन्धद्वितीयाध्याये 'स्थिरं सुखम्' इत्यत्र सुबोधिन्यामस्ति । विधीति विधिविषयत्वम् । योपीति योपि वर्तते सोपि नियामक इत्यर्थः । स्वैरेति यथाचार्याणाम् । न कोपीति प्राणाग्निहोत्रोपनिषदुक्तप्राणाग्नि- होत्रस्य स्वैरचारिषु संभवाद्यावज्जीवश्रुतिविरोधरूपदोषोऽपि नेत्यर्थः । अत्रापि विरुद्धयोः 'यावज्जीवम्' 'यदहरेव' श्रुत्योर्विरोधपरिहार इति पादार्थः ॥ ४८ ॥ 1434